रूपं देहि यशो देहि भगं भवति देहि मे
ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः
आदित्यस्य तथा पूजां तिलकं स्वामिनस्तथा
श्वेतार्कस्य तु यो मूले महागणपतिः कृतः
संजप्यते शुचौ देशे विघ्नं नात्र हि देहिनः
क्षीणभाग्योऽपि पुरुषः पूजितश्च नरेश्वरः .
नक्षत्रहोमविधिवर्णनम् बंधने संनिरोधेङ्गा व्याधीनां संप्रपीडने
कथं मोक्षो भवेत्तस्य साध्यासाध्यं ब्रवीहि मे
आधाने जन्मनक्षत्रे नैधनप्रत्ययेषु च
कृत्तिकासु यदा कश्चिद्व्याधिं संप्रतिपद्यते
मृगशीर्षे पञ्चरात्रमार्द्रा प्राणवियोजिनी
नवरात्रं तथाश्लेषा श्मशानांतं मघासु च
हस्ते च तनु दृश्येत चित्रायां त्वर्द्धमास कम्
मासद्वयं तथा स्वातौ विशाखा विंशतिर्दिनाः
मूलेन जायते मोक्षश्चाषाढासु त्रिपञ्चकम्
धनिष्ठायामर्द्धमासं वारुणे तु दशाहकैः 4.145.
रेवती दशरात्रं तु अहोरात्रं तथाश्विनी
कौशिकेन समादिष्टो नक्षत्रव्याधिसंभवः
क्षीरवृक्षस्य समिधो जुहुयादश्वदैवते
प्राजापत्ये तु जुहुयाद्भोग्यबीजकरं बकम्
आदित्ये च प्रयत्नेन घृताक्ताः सिततंडुलाः
ग्राम्योषधैर्वटपत्रैः सर्पिः सर्पाधिदैवते
सावित्रे दधिहोमोत्र त्वाष्ट्रं चित्रौदनं हविः
यवान्सहाज्येन हुनेद्रौद्रेऽग्नौ तु पयोदनम्
नैर्ऋत्ये तिलहोमः स्यादव्यक्ते च हुताशने
रक्ताश्च तंडुलाश्चैव होतव्या विष्णुदैवते 4.145.
अजैकपादे नक्षत्रे प्राजापत्येन तत्समम्
रक्ताश्च तण्डुलाश्चैव होतव्या विष्णुदैवते
सावित्री होममेकं तु ब्रह्माभिहितवान्पुरा