सहस्राक्षेण प्रथमं ततश्चैव शता युषा
ऋतमस्त्विति च ततः स्नापयेयुः समाहिताः
नमोस्तु सर्वभूतेभ्य इति मन्त्रमुदाहरन्
शांतितोयेन धारां च पातयित्वा संमततः 4.143.
क्षितिं हिरण्यं वासांसि शयनान्यासनानि च
दीनानाथविशिष्टेभ्यः श्रोत्रियेभ्यश्च दापयेत्
आयुश्च लभते दीर्घं शत्रून्विजयते क्षणात्
यथाशस्त्रप्रहाराणां कवचं वारणं भवेत्
अहिंसकस्य दांतस्य धर्मार्जितधनस्य च
अर्थान्समर्थयति वर्द्धयते च धर्मं कामं प्रसाधयति तस्य पिनष्टि पापम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाशांतिविधिवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः
गणनाथशान्तिवर्णनम् युधिष्ठिर उवाच शांतिं कथय देवेश गणनाथस्य मे विभो
यस्या आचरणेनैव सर्वारिष्टक्षयो भवेत्
विनायकं कर्माविघ्नसिद्ध्यर्थं विनिबोधत
काषायवाससश्चैव क्रव्यादानधिरोहति
व्रजन्नपि तथात्मानं मन्यतेनुगतं परैः
तेनोपसृष्टो लभते न राज्यं राजनंदनः
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्यापनं तथा
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम्
सुगन्धकुंकुमालिप्तशरीरशिरसस्तथा
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् 4.144.
सहस्राक्षं शतधारमृषिणा वचनं कृतम्
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः
यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण च
मितश्च समितश्चैव तथा सालकटंकटौ
नामभिर्बलिमंत्रैश्च नमस्कारसमन्वितैः
कृता कृतांस्तंडुलांश्च पललौदनमेव च
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि
दूर्वां सर्वप्रपुष्पाणां दत्त्वार्घ्यं पूर्णमडलाम् 4.144.