अष्टास्रालंकृते पद्मे चूतपल्लवशोभिते
औषधीः पञ्चरत्नानि रोचनां चन्दनं तथा
अपामार्गं फलवतीं न्यग्रोधोदुंबरौ तथा
हस्तिदंतमृदं चैव कोणकुम्भेषु निक्षिपेत् 4.143.
कूर्चं वाचमितीदं च वह्निकुम्भाभिमन्त्रणम्
ईशावास्यं चतुर्थस्य कुम्भस्य चाभिमंत्रणम्
गंधपुष्पाक्षतैर्वस्त्रैर्नैवैद्यैर्घृतपाचितैः
स्वस्तिवाचनकं चैव कारयेत्तदनंतरम्
अग्निं दूतमिति ह्यग्निं पूर्वमेव निधापयेत्
कपोतसुप्रणीतेन मंत्रेण विनिशेषयेत्
अथ चासादयेद्द्रव्यं यथावत्सप्रयोजनम्
अभिघार्याथ संसिद्धं तथा संस्थापयेद्भुवि
पालाशी समिधः सप्त तथा सप्तेति दापयेत्
जुहुयादाहुतीः सप्त जातवेदस इत्यृचा 4.143.
तरत्समंदी सूक्तेन चतस्रो जुहुयात्ततः
इदं विष्णुस्ततः सप्त जुहुयादाहुतीर्नृप
यत्कर्मणैति जुहुयात्ततः स्विष्टकृतं पुनः
प्रायश्चित्तं ततो हुत्वा होमकर्म समापयेत्
यजमानस्य कर्तव्यो ह्यभिषेको द्विजोत्तमैः
वेदिमध्यगतं कृत्वा दुर्निमित्तप्रशांतये
सहस्राक्षेण प्रथमं ततश्चैव शता युषा
ऋतमस्त्विति च ततः स्नापयेयुः समाहिताः
नमोस्तु सर्वभूतेभ्य इति मन्त्रमुदाहरन्
शांतितोयेन धारां च पातयित्वा संमततः 4.143.
क्षितिं हिरण्यं वासांसि शयनान्यासनानि च
दीनानाथविशिष्टेभ्यः श्रोत्रियेभ्यश्च दापयेत्
आयुश्च लभते दीर्घं शत्रून्विजयते क्षणात्
यथाशस्त्रप्रहाराणां कवचं वारणं भवेत्
अहिंसकस्य दांतस्य धर्मार्जितधनस्य च
अर्थान्समर्थयति वर्द्धयते च धर्मं कामं प्रसाधयति तस्य पिनष्टि पापम्