ततश्चावभृथं स्नायात्तैर्घटैः पूर्वकल्पितैः
एवं समापयेद्यस्तु कोटिहोममखं शुभम्
सर्वपापक्षयश्चैव जायते नृपसत्तम
सर्वोपसर्गशमनं भवने वने वा ये कारयन्ति मनुजा नृपकोटिहोमम् 4.142.
महाशान्तिविधिवर्णनम् पार्थिवानां हितार्थाय महादुस्तरतारिणीम्
नृपाभिषेके सा कार्या यात्राकाले नृपस्य तु
विद्युदुल्कानिपाते च जन्मर्क्षे ग्रहदैवते
प्रसूतौ मूलगण्डान्ते यमलस्य तु संभवे काकोलूककपोतानां प्रवेशे वेश्मनस्तथा
क्रूरग्रहाणां वक्रत्वे जन्मादिषु विशेषतः
यदा स्युर्गुरुमन्दाऽऽराः सूर्यश्चैव विशेषतः
वस्त्रायुधगवाश्वेषु मणिकेशविनाशने
वेश्मनश्च तुलाभंगे गर्भेष्वश्वतरीषु च
सर्वाणि दुर्निमित्तानि प्रशमं यान्ति सर्वथा
चतुर्वेदास्त्रिवेदाश्च द्विवेदाश्चापि पांडव 4.143.
शुचयः श्रुतसंपन्ना जपहोमपरायणाः
पूर्वमाराध्य मंत्रैस्तु प्रारभेत क्रियां ततः
तन्मध्ये वेदिकां कुर्याच्चतुर्हस्त प्रमाणतः
मेखलात्रयसंयुक्तं योन्या चापि विभूषितम्
गोमयेनोपलिप्ते च मंडपे तु द्विजातयः
ततश्च पञ्च कलशांस्तस्यां वेद्यां नियोजयेत्
अष्टास्रालंकृते पद्मे चूतपल्लवशोभिते
औषधीः पञ्चरत्नानि रोचनां चन्दनं तथा
अपामार्गं फलवतीं न्यग्रोधोदुंबरौ तथा
हस्तिदंतमृदं चैव कोणकुम्भेषु निक्षिपेत् 4.143.
कूर्चं वाचमितीदं च वह्निकुम्भाभिमन्त्रणम्
ईशावास्यं चतुर्थस्य कुम्भस्य चाभिमंत्रणम्
गंधपुष्पाक्षतैर्वस्त्रैर्नैवैद्यैर्घृतपाचितैः
स्वस्तिवाचनकं चैव कारयेत्तदनंतरम्
अग्निं दूतमिति ह्यग्निं पूर्वमेव निधापयेत्
कपोतसुप्रणीतेन मंत्रेण विनिशेषयेत्