यदा तु स्वेच्छया यज्ञं यजमानः समापयेत्
एककुंडस्थितो वह्निरेकचित्तैः समाहितैः
न संख्यानियमश्चात्र ब्राह्मणानां नरोत्तम
आवृत्त्या सर्वकामस्य चातुर्मास्यानुकर्मवत्
अयमेकमुखो राजन्कालेन बहुना भवेत् 4.142.
यतो हि चित्तवित्ताद्यमायुश्चैवास्थिरं सदा
ततः समाप्ते यज्ञे तु कारयेत्सुमहोत्सवम्
ततस्तु दीक्षयेद्विन्प्रान्होतॄंश्च श्रद्धयान्वितः
गोशतं चैव दातव्यमश्वानां च शतं तदा
ग्रामैर्गजै रथैरश्वैः पूजयेच्च पुरोहितम्
ततश्चावभृथं स्नायात्तैर्घटैः पूर्वकल्पितैः
एवं समापयेद्यस्तु कोटिहोममखं शुभम्
सर्वपापक्षयश्चैव जायते नृपसत्तम
सर्वोपसर्गशमनं भवने वने वा ये कारयन्ति मनुजा नृपकोटिहोमम् 4.142.
महाशान्तिविधिवर्णनम् पार्थिवानां हितार्थाय महादुस्तरतारिणीम्
नृपाभिषेके सा कार्या यात्राकाले नृपस्य तु
विद्युदुल्कानिपाते च जन्मर्क्षे ग्रहदैवते
प्रसूतौ मूलगण्डान्ते यमलस्य तु संभवे काकोलूककपोतानां प्रवेशे वेश्मनस्तथा
क्रूरग्रहाणां वक्रत्वे जन्मादिषु विशेषतः
यदा स्युर्गुरुमन्दाऽऽराः सूर्यश्चैव विशेषतः
वस्त्रायुधगवाश्वेषु मणिकेशविनाशने
वेश्मनश्च तुलाभंगे गर्भेष्वश्वतरीषु च
सर्वाणि दुर्निमित्तानि प्रशमं यान्ति सर्वथा
चतुर्वेदास्त्रिवेदाश्च द्विवेदाश्चापि पांडव 4.143.
शुचयः श्रुतसंपन्ना जपहोमपरायणाः
पूर्वमाराध्य मंत्रैस्तु प्रारभेत क्रियां ततः
तन्मध्ये वेदिकां कुर्याच्चतुर्हस्त प्रमाणतः
मेखलात्रयसंयुक्तं योन्या चापि विभूषितम्
गोमयेनोपलिप्ते च मंडपे तु द्विजातयः
ततश्च पञ्च कलशांस्तस्यां वेद्यां नियोजयेत्