एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः
ततस्तु तैर्द्विजैः सार्द्धं कुंडस्य विधिपूर्वकम्
ततः समाह्वयेद्वह्निं नाम्ना ख्यातं घृतार्चिषम् अलाभे तु बहूना च यथालाभं नियोजयेत्
विद्यावृद्धान्वयोवृद्धान्गृहस्थान्संयतेन्द्रियान्
चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् 4.142.
एकजिह्वमथैकं तु तत्स्मृतं सर्वकामदम्
ऋग्भिः पूर्वामुखैर्होमो यजुर्भिश्चोत्तरामुखैः। सामभिः पश्चिमे कार्योऽथर्वभिर्दक्षिणामुखैः
आघारावाज्य भागौ तु पूर्वं हुत्वा विचक्षणः
ब्रह्माणं पूर्वमप्येतत्सर्वं पश्चात्समाचरेत्
प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः
एवं प्रकल्पये द्यज्ञं कोटिहोमाख्यमुत्तमम्
होतव्याः कोटिहोमे तु समिधश्च पलाशजाः पञ्चमे तन्मुखे राजन्सर्वकामार्थसिद्धये
पूर्णाहुत्यः समाख्याताः कोटिहोमे नराधिप
प्रारंभदिनमारभ्य ब्राह्मणैर्ब्रह्मवादिभिः
क्रोधलोभादयो दोषा वर्जनीयाः प्रयत्नतः 4.142.
कालेन महता चैव शक्यः प्राप्तुं कथंचन
नियमाद्ब्रह्मचर्याद्वा दुष्करो हीति मे मतिः
कार्याद्गुरुतया यस्मात्पर्वकालाद्यपेक्षया कोटिहोमस्य संक्षेपं वद मे ब्रह्म संभव
चतुर्विधो महाराज कोटिहोमो विधीयते
कार्यस्य गुरुतां ज्ञात्वा नैव कुर्यादपर्वणि
कृत्वा कुंडशतं दिव्यं यथोक्तं हस्त संमितम्
सद्यः पक्षे तु विप्राणां सहस्रं परिकीर्तितम्
होमं कुर्युर्द्विजाः सर्वे कुण्डे कुण्डे यथोदितम्
न च वह्निबहुत्वं स्यात्तत्र यज्ञे विधीयते
एक एव भवेद्यज्ञः कोटिहोमो न संशयः शताननः स विज्ञेयः कोटिहोमो न संशयः ।। 4.142.
स्वल्पैरहोभिः कार्यः स्याद्वर्षाकालादिकेऽपि वा
विप्राणां द्वे शते तत्र सुविभज्य नियोजयेत्
भूप कुंडद्वयं कृत्वा विभज्य च विभावसुम्
शतं तत्र नियोज्यं स्याद्विप्राणां प्रविभज्य वै
एवं च द्विमुखं कार्यः कोटिहोमो विचक्षणैः