वस्त्रैर्विभूषणैश्चैव गंधमाल्यानुलेपनैः
त्वं नो गतिः पिता माता त्वं गतिस्त्वं परायणः
आपद्विमोक्षाय च मे कुरु यज्ञमनुत्तमम्
पुरोहितस्ततः प्राज्ञः शुक्लांबरधरः शुचिः
भूमिभागे समे शुद्धे प्रागुदक्प्रवणे तथा 4.142.
ततस्तु महितैर्विप्रः सूत्रयेन्मण्डपं शुभम् जघन्यं तु तदर्धेन शक्तिकालाद्यपेक्षया
मध्ये तु मण्डपस्यापि कुंडं कुर्याद्विचक्षणः
मेखलात्रितयं तस्य द्वादशांगुलविस्ततम्
कुंडस्य पूर्वभागे तु वेदिं कुर्याद्विचक्षणः
स्थानं तत्सर्वभूतानां कुर्याद्यत्नेन बुद्धिमान्
उदलिप्य ततो भूमिं मंडपस्य समीपतः
अश्वत्थप्लक्षचूताद्यैः पल्लवैरुपशोभितान्
स्थापयेद्दिक्षु सर्वासु तोरणानि विचक्षणः
पुण्याहजयघोषेण होमकर्म समारभेत्
ब्राह्मणं पूर्वभागे तु मध्ये देवं जनार्दनम् 4.142.
ऐशान्यां च ग्रहान्सर्वानाग्नेय्यां मरुतस्तथा
एवं संस्थाप्य विबुधान्यथास्थानं नृपोत्तम
वेदोक्तमंत्रैस्तल्लिङ्गैः पुराणोक्तैः पृथक्पृथक् आदित्या वसवो रुद्रा लोकपालास्तथा ग्रहाः
ब्रह्मा जनार्दनश्चैव शूलपाणिर्भगाक्षिहा
पूजां गृह्णंतु सर्वेत्र मया भक्त्योपपादिताम्
एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः
ततस्तु तैर्द्विजैः सार्द्धं कुंडस्य विधिपूर्वकम्
ततः समाह्वयेद्वह्निं नाम्ना ख्यातं घृतार्चिषम् अलाभे तु बहूना च यथालाभं नियोजयेत्
विद्यावृद्धान्वयोवृद्धान्गृहस्थान्संयतेन्द्रियान्
चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् 4.142.
एकजिह्वमथैकं तु तत्स्मृतं सर्वकामदम्
ऋग्भिः पूर्वामुखैर्होमो यजुर्भिश्चोत्तरामुखैः। सामभिः पश्चिमे कार्योऽथर्वभिर्दक्षिणामुखैः
आघारावाज्य भागौ तु पूर्वं हुत्वा विचक्षणः
ब्रह्माणं पूर्वमप्येतत्सर्वं पश्चात्समाचरेत्
प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः