अथ वा ऋत्विजौ शांतौ द्वावेव त्वतिकोविदौ
नवग्रहमखे सर्वं लक्षहोमे दशोत्तरम्
न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः 4.141.
अन्नदानं यथा शक्त्या दातव्यं भूतिमिच्छता
राष्ट्रं हन्यादंगहीनो मंत्रहीनस्तु ऋत्विजः
न चाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित्
तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि
दक्षिणाभिः प्रयत्नेन बहू्न्वा बहुवित्तवान्
यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः
यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात्
स तं काममवाप्नोति पदं चानंत्यमश्नुते
भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम्
यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् 4.141.
शांतिं नवग्रहमयीं दुरितोपशांतिं राजन्करोति बहुना विधिवद्द्विजेन्द्रैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयु धिष्ठिरसंवादे नवग्रहलक्षहोमविधिवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः
कोटिहोमविधिवर्णनम् श्रीकृष्ण उवाच राजा संवरणः पूर्वं प्रतिष्ठाने पुरोत्तमे
ब्रह्मण्यः पितृभक्तश्च देवब्राह्मणपूजकः
आजगाम महायोगी सनको ब्रह्मणः सुतः
पूजयित्वार्घ्यपाद्याद्यैरात्मानं विनिवेद्य च
राजर्षीणां पुराणां च चरितानि यथार्थवित्
हिताय पृथिवीशानां जगतश्चात्मनस्तथा
निर्घाते पांशुवर्षे च गृहभंगे तथैव च
जन्मनक्षत्रपीडासु अनावृष्टिभयेषु च
व्याधीनां संभवे जाते शरीरे चातिपीडिते
स्वर्गस्य साधनं यच्च कीर्तिदं धनदं तथा 4.142.
कोटिहोमाख्यमतुलं सर्वकामफलप्रदम्
ब्रह्महत्यादिपापानि येन नश्यंति तत्क्षणात्
विधानं तस्य वक्ष्यामि शृणुष्वैकमना भव
पर्वते वापि कुर्वीत य इच्छेत्क्षेममात्मनः
यजमानस्यानुकूल्ये कोटिहोमं समाचरेत्