संस्थापनाय देवानां वप्रत्रयसमावृतम्
अंगुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि
दशांगुलोच्छ्रिता भित्तिः स्थंडिलस्य तथोपरि
आदित्याभिमुखाः सर्वाः स्थाप्याः प्रत्यधिदेवताः
गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता
विषपापहरो नित्यमतः शांतिं प्रयच्छ मे 4.141.१
सहस्राणां शतं हुत्वा समित्संख्यादिकं पुनः
पाठयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैंदवम्
स्नानं तु यजमानस्य पूर्ववन्मन्त्रवाचनम्
कामक्रोधविहीनेन ऋत्विग्भ्यः शांतचेतसः
अथ वा ऋत्विजौ शांतौ द्वावेव त्वतिकोविदौ
नवग्रहमखे सर्वं लक्षहोमे दशोत्तरम्
न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः 4.141.
अन्नदानं यथा शक्त्या दातव्यं भूतिमिच्छता
राष्ट्रं हन्यादंगहीनो मंत्रहीनस्तु ऋत्विजः
न चाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित्
तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि
दक्षिणाभिः प्रयत्नेन बहू्न्वा बहुवित्तवान्
यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः
यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात्
स तं काममवाप्नोति पदं चानंत्यमश्नुते
भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम्
यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् 4.141.
शांतिं नवग्रहमयीं दुरितोपशांतिं राजन्करोति बहुना विधिवद्द्विजेन्द्रैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयु धिष्ठिरसंवादे नवग्रहलक्षहोमविधिवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः
कोटिहोमविधिवर्णनम् श्रीकृष्ण उवाच राजा संवरणः पूर्वं प्रतिष्ठाने पुरोत्तमे
ब्रह्मण्यः पितृभक्तश्च देवब्राह्मणपूजकः
आजगाम महायोगी सनको ब्रह्मणः सुतः
पूजयित्वार्घ्यपाद्याद्यैरात्मानं विनिवेद्य च
राजर्षीणां पुराणां च चरितानि यथार्थवित्