यस्मात्त्वं छाग यज्ञानामंगत्वेन व्यवस्थितः
गवामंगेषु तिष्ठंति भुवनानि चतुर्दश
यस्मादशून्यं शयनं केशवस्य शिवस्य च
यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः
यथा भूमिप्रदानस्य कलां नार्हंति षोडशीम्
एवं संपूजयेद्भक्त्या वित्तशाठ्यविवर्जितः 4.141.
ग्रहस्वरूपमतुलं कथ्यमानं निबोध मे पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः
श्वेतः श्वेतांबरधरो दशाश्वः श्वेतभूषणः
रक्तमाल्यांबरधरः कर्णिकारसमंद्युतिः
पीतमाल्यांबरधरः पीतगंधानुलेपनः
देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः
शार्दूलवदनः खड्गी वर्मी शूली वरप्रदः
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः
ग्रहस्वरूपमेतत्ते व्याख्यातं पांडुनन्दन 4.141.
विधिना ग्रहपूजां योनेन त्वारभते नरः
यस्तु पीडाकरो नित्यं माल्यवित्तस्य वा ग्रहः
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः
तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता
सदैवाऽयुतहोमोऽयं नवग्रहमखः स्मृतः
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु
कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु
पितॄणां वल्लभो यस्माद्भुक्तिमुक्तिफलप्रदः
गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः 4.141.
प्रागुत्तरं समासाद्य प्रदेशं मंडपस्य तु
मानहीनं चाप्रशस्तमनेकभयदं भवेत्
अस्माद्दशगुणः प्रोक्तो लक्षहोमे स्वयंभुवा
द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः