उद्बुध्यस्वेति बोध्यश्च यथासंख्यमुदाहृताः
शन्नोदेवीति च कया केतुं कृण्वन्नितीति च
मंत्रैर्दशाहुतीर्दत्त्वा होमो व्याहृतिभिस्ततः
मंत्रवंतस्तु कर्तव्याश्चरवः प्रतिदैवतम्
आपो हिष्टेत्युमायास्तु श्येनेति स्वामिनस्तथा
इन्द्रादिदेवतानां तु इन्द्राय जुहुयात्पुनः 4.141.
कालस्य ब्रह्मजज्ञानमिति मंत्रः प्रशस्यते
अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः
भूमेः पृथिव्यंतरिक्षमिति वेदेषु पठ्यते
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः
कीर्तिर्लक्ष्मीर्धृतिर्मेधाः पुष्टिः श्रद्धा क्रिया मतिः
एतास्त्वामभिषिंचंतु धर्मपत्न्यः समागताः
ग्रहास्त्वामभिषिंचंतु राहुः केतुश्च तर्पिताः
ऋषयो मनवो गावो देवमातर एव च
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च
सरितः सागराः शैलास्तीर्थानि जलदा नदाः 4.141.
ततः शुक्लांबरधरः शुक्लगन्धानुलेपनः
यजमानः सपत्नीकान्सिद्धिदांस्तान्समाहितान्
सूर्याय कपिलां धेनुं दद्याच्छंखं तथेन्दवे
बुधाय जातरूपं च गुरवे पीतवाससी
आयसं राहवे दद्यात्केतवे च्छागमुत्तमम्
सर्वेषामथवा दद्याद्गुरुर्वा येन तुष्यति
कपिले सर्वदेवानां पूजनीयासि रोहिणी
पुण्यस्त्वं शंख पुण्यानां मङ्गलानां च मंगलम्
धर्म त्वं वृषरूपेण जगदानन्दकारकः
हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः 4.141.
पीतवस्त्रयुगं दद्याद्वासुदेवस्य वल्लभम्
कपिलस्त्वश्वरूपेण यस्मादमृतसम्भवः
यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंज्ञिता
यस्मादायस कर्माणि तवाधीनानि सर्वदा