पुत्रो वररुचिः श्रेष्ठोऽथर्वणस्य नृपप्रियः ।। ते गता मागधेशस्य चन्द्रगुप्तस्य वै सभाम् 3.2.30.
नृपस्तान्पूजयामास बहुमानपुरःसरम्
व्याडिराह महाराज यः स्तुतौ तत्परः पुमान्
मीमांसश्चाह भो राजन्यज्ञे यो हि पुमान्परः
हवनं तर्पणं कृत्वा ब्रह्मादिकसुरान्प्रति
श्रुत्वेदं पाणिनिश्चाह चन्द्रगुप्त शृणुष्व भोः
तथैव सूत्रपाठैश्च लिंगधातुगणावृतैः
श्रुत्वा वररुचिश्चाह शृणु मागधभूपते
दंडलोमनखाधारी भिक्षार्थी वेदतत्परः
इति तेषां वचः श्रुत्वा पितृशर्माब्रवीदिदम्
गामी पाणिगृहीतायामृतुकाले यतेंद्रियः 3.2.30.
स्वामिन्यद्भवता चोक्तं धर्मज्ञेन यशस्विना
इत्युक्त्वा तस्य शिष्योऽभूद्गुरुवाक्यपरायणः
पितृशर्मापि मनसा ध्यात्वा दामोदरं हरिम्
[https://sa.wikisource.org/s/d7d पूर्वपुटम्] यत्कृत्वा च कलौ घोरे परां निर्वृतिमाप्नुयात्
कणभुग्वरशिष्यैश्च शास्त्रज्ञैः स पराजितः
लज्जितः पाणिनिस्तत्र गतस्तीर्थान्तरं प्रति
केदारमुदकं पीत्वा शिवध्यानपरोऽभवत्
ततो दशदिनान्ते स वायुभक्षो दशाहनि
श्रुत्वामृतमयं वाक्यमस्तौद्गद्गदया गिरा
नन्दीसंस्थाय देवाय विद्याभयकराय च
पापान्तकाय भर्गाय नमोनन्ताय वेधसे
यदि प्रसन्नो देवेश विद्यामूलप्रदो भव
सर्ववर्णमयान्येव अइउणादिशुभानि वै ।। 3.2.31.
ज्ञानह्रदे सत्यजले राग द्वेषमलापहे
मानसं हि महत्तीर्थ ब्रह्मदर्शनकारकम्
इत्युक्त्वांतर्दधे रुद्रः पाणिनिः स्वगृहं ययौ
लिंगसूत्रं तथा कृत्वा परं निर्वाणमाप्त वान्
यतो याता स्वयं गंगा सर्वतीर्थमयी शिवा
बभूव कृष्णभक्तश्च वेदवेदांगपारगः