स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्
शनैश्चरस्य तु यमं राहोः कालं तथैव च
अग्निरापः क्षितिर्विष्णुरिन्द्रः सौवर्णदेवताः
विनायकं तथा दुर्गां वायुमाकाशमेव च
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ
सोमशुक्रौ यथाश्वेतौ बुधजीवौ च पिङ्ग लौ 4.141.
ग्रहवर्णानि देयानि वासांसि कुसुमानि च
गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम्
दध्यन्नं गुरवे दद्याच्छक्राय तु घृतौदनम्
चित्रौदनं केतवे च सर्वान्भक्ष्यैरथार्चयेत्
चूत पल्लवसंपन्नं फलवस्त्रयुगान्वितम्
स्थापयेदव्रणं कुंभं वरुणं तत्र विन्यसेत्
गजाश्वरथ्यावल्मीकात्संगमाद्धृदगोकुलात्
स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित्
आयांतु यजमानस्य दुरितक्षयकारकाः
होमं समारभेत्सर्पिर्यवव्रीहितिलादिना 4.141.
उदुंबर शमीदूर्वाकुशाश्च समिधः क्रमात्
होतव्या मधुसर्पिभ्यां दध्ना वा पायसेन वा
कल्प्यंते समिधः प्राज्ञैः सर्वकर्मसु सर्वदा
ऽ स्वेन स्वेनैव मंत्रेण होतव्याः समिधः पृथक्
उद्बुध्यस्वेति बोध्यश्च यथासंख्यमुदाहृताः
शन्नोदेवीति च कया केतुं कृण्वन्नितीति च
मंत्रैर्दशाहुतीर्दत्त्वा होमो व्याहृतिभिस्ततः
मंत्रवंतस्तु कर्तव्याश्चरवः प्रतिदैवतम्
आपो हिष्टेत्युमायास्तु श्येनेति स्वामिनस्तथा
इन्द्रादिदेवतानां तु इन्द्राय जुहुयात्पुनः 4.141.
कालस्य ब्रह्मजज्ञानमिति मंत्रः प्रशस्यते
अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः
भूमेः पृथिव्यंतरिक्षमिति वेदेषु पठ्यते
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः