ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः
तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः
तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम्
कुर्याद्विधानतो वेदिं वितस्त्युच्छ्रयसंयुताम्
अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान्
सूर्यः सोमो महीपुत्रो बुधो जीवः सितोर्कजः 4.141.
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णजावुभौ
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु
पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके
राजामात्यान्महाराज तंडुलैः स्थापयेदथ
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्
शनैश्चरस्य तु यमं राहोः कालं तथैव च
अग्निरापः क्षितिर्विष्णुरिन्द्रः सौवर्णदेवताः
विनायकं तथा दुर्गां वायुमाकाशमेव च
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ
सोमशुक्रौ यथाश्वेतौ बुधजीवौ च पिङ्ग लौ 4.141.
ग्रहवर्णानि देयानि वासांसि कुसुमानि च
गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम्
दध्यन्नं गुरवे दद्याच्छक्राय तु घृतौदनम्
चित्रौदनं केतवे च सर्वान्भक्ष्यैरथार्चयेत्
चूत पल्लवसंपन्नं फलवस्त्रयुगान्वितम्
स्थापयेदव्रणं कुंभं वरुणं तत्र विन्यसेत्
गजाश्वरथ्यावल्मीकात्संगमाद्धृदगोकुलात्
स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित्
आयांतु यजमानस्य दुरितक्षयकारकाः
होमं समारभेत्सर्पिर्यवव्रीहितिलादिना 4.141.
उदुंबर शमीदूर्वाकुशाश्च समिधः क्रमात्
होतव्या मधुसर्पिभ्यां दध्ना वा पायसेन वा
कल्प्यंते समिधः प्राज्ञैः सर्वकर्मसु सर्वदा
ऽ स्वेन स्वेनैव मंत्रेण होतव्याः समिधः पृथक्