सर्वाभरणसंपूर्णं विंध्यावल्या सहासितम्
संपूर्णहृष्टवदनं किरीटोत्कटकुण्डलम् 4.140.
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः
मद्यमांससुरालेह्यदीपवर्त्युपहारकैः
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो
एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः
लोकश्चापि गृहस्यांते शय्यायां शुक्लतंडुलैः
बलिमुद्दिश्य दीयंते दानानि कुरुनन्दन
यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु
विष्णुना वसुधा लब्धा प्रीतेन बलये पुनः
ततः प्रभृति राजेन्द्र प्रवृत्ता कौमुदी पुनः 4.140.
लोकशोकहरी काम्या धनपुष्टिसुखावहा
धातुज्ञैर्नैगमज्ञैश्च तेनैषा कौमुदी स्मृता
हृष्टास्तुष्टाः सुखायत्तास्तेनैषा कौमुदी स्मृता
अर्थार्थे पार्थ भूमौ च तेनैषा कौमुदी स्मृता
दत्तं दानवराजस्य आदर्शमिव भूतले
कुत ईति भयं तत्र नास्ति मृत्युकृतं भयम्
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः
यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर
रुदिते रोदिति वर्षं हृष्टो वर्षं प्रहृष्यति
तस्मात्प्रहृष्टैस्तुष्टैश्च कर्तव्या कौमुदी नरैः 4.140.
उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम्
कूष्माण्डादानरम्यं कुवलयखण्डैश्च धातुकाभद्रम्
दीपोत्सवे जनितसर्वजनप्रमोदां कुर्वंति ये सुमनसो बलिराजपूजाम्
इति श्रीभविष्ये महापुराण उत्तरप र्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपालिकोत्सववर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः
नवग्रहलक्षहोमविधिवर्णनम् सर्वकामाप्तये कृत्यं कथं शांतिकपौष्टिकम्
दृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः
सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम्
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्