एवं गते निशार्धे तु जने निद्रार्द्रलोचने निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहांगणात्
ततः प्रबुद्धे सकले जने जातमहोत्सवे 4.140.
वेश्या विलासिनी सार्धं स्वस्ति मंगलकारिणी
पिष्टकोद्वर्तनपरे गुरुशुश्रूषणाकुले
सुवासिनीभ्यो दाने च दीयमाने यदृच्छया
सद्भावेनैव सन्तोष्या देवाः सत्पुरुषा द्विजाः
वस्त्रैस्तांबूलदानैश्च पुष्पकर्पूरकुंकुमैः
ग्रामैर्विषयदानैश्च सामंतनृपतीन्धनैः
स्वयं राजा तोषयेत्स जनान्भृत्यान्पृथक्पृथक्
वृषभान्महिषांश्चैव युध्यमानान्परैः सह
मंचारूढः स्वयं पश्येन्नटनर्तकचारणान्
दिष्ट्या कार्यं पयोज्योतिरुक्तिप्रत्युक्तिका वदेत् 4.140.
मार्गपालीं प्रबध्नीयात्तुंगस्तंभेऽथ पादपे
पूजयित्वा गजान्वाजीन्सार्धे यामत्रये गते
कृते होमे द्विजेन्द्रैस्तु गृह्णीयान्मार्गपालिकाम्
स्वशक्त्यपेक्षया वापि गृह्णीयाद्वामभोजनैः
संतारयेत्स सकलं मार्गपालीं ददाति यः
मार्गपालीतलेनेत्थं हया गावो गजा वृषाः
मार्गपालीं समुल्लंघ्य नीरुजः स्यात्सुखी सदा
पूजां कुर्यान्नरः साक्षाद्भूमौ मंडलके कृते
सर्वाभरणसंपूर्णं विंध्यावल्या सहासितम्
संपूर्णहृष्टवदनं किरीटोत्कटकुण्डलम् 4.140.
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः
मद्यमांससुरालेह्यदीपवर्त्युपहारकैः
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो
एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः
लोकश्चापि गृहस्यांते शय्यायां शुक्लतंडुलैः
बलिमुद्दिश्य दीयंते दानानि कुरुनन्दन
यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु