अपामार्गपल्लवान्वा भ्राभयेन्मस्तकोपरि
हर पापमपामार्ग भ्राम्यमाणं पुनःपुनः अपामार्ग नमस्तेस्तु शरीरं मम शोधय
( इत्यपामार्ग भ्रमण मन्त्रः) ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः वैवस्वताय कालाय सर्वभूतक्षयाय च ।।4.140.१
नरकाय प्रदातव्यो दीपः संपूज्य देवताः
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च मंदुरासु विविक्तासु हस्तिशालासु चैव हि
एवं प्रभातसमयेऽमावास्यायां नराधिप
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः
ततोऽपराह्णसमये घोषयेन्नगरे नृपः
लोकश्चापि परे हृष्येत्सुधाधवलिताजिरे
द्यूतपानरतोदृप्तनरनारीमनोहरे १८ . तांबूलहृष्ट वदने कुङ्कुमक्षोदचर्चिते
दुकूलपट्टनेपथ्ये स्वर्णमाणिक्यभूषिते 4.140.
युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि प्रदोषे दोषरहिते शस्तदोषागमे शुभे
शशिपूर्णमुखाभिश्च कन्याभिः क्षिप्ततण्डुलम्
भ्राम्यमाणो नतो मूर्घ्नि मनुजानां जनाधिपः नीराजनं तु तेनेह प्रोच्यते विजयप्रदम्
तस्माज्जनेन कर्तव्यं रक्षोदोषभयापहम्
क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम्
महता तूर्यघोषेण ज्वलद्भिर्हस्तदीपकैः
तं दृष्ट्वा महदाश्चर्यमृद्धिं चैवात्मनः शुभाम्
एवं गते निशार्धे तु जने निद्रार्द्रलोचने निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहांगणात्
ततः प्रबुद्धे सकले जने जातमहोत्सवे 4.140.
वेश्या विलासिनी सार्धं स्वस्ति मंगलकारिणी
पिष्टकोद्वर्तनपरे गुरुशुश्रूषणाकुले
सुवासिनीभ्यो दाने च दीयमाने यदृच्छया
सद्भावेनैव सन्तोष्या देवाः सत्पुरुषा द्विजाः
वस्त्रैस्तांबूलदानैश्च पुष्पकर्पूरकुंकुमैः
ग्रामैर्विषयदानैश्च सामंतनृपतीन्धनैः
स्वयं राजा तोषयेत्स जनान्भृत्यान्पृथक्पृथक्
वृषभान्महिषांश्चैव युध्यमानान्परैः सह