शतहीनं कृत राज्यं तस्माज्जातो दिवाकरः
शतहीनं कृतं राज्यं विवस्वज्ज्ञस्तदात्मजः ।। 3.1.3.
शतहीनं कृतं राज्यं हरिदश्वार्चनस्ततः
शतहीनं कृतं राज्यं स्तस्मादर्केष्टिमान्सुतः
शतहीनं कृतं राज्यं मिहिरार्थस्तु तत्सुतः
शतहीनं कृतं राज्यं तस्माद्द्युमणिवत्सलः
शतहीनं कृतं राज्यं तस्मान्मैत्रेष्टिवर्धनः ।।'
शतहीनं कृतं राज्यं तस्माद्वैरोचनः स्मृतः
पितुस्तुल्यं कृतं राज्यं तस्माद्वेदप्रवर्धनः
शतहीनं कृतं राज्यं धनपालस्ततोऽभवत्
शतहीनं कृतं राज्यं तस्मादानंदवर्द्धनः
शतहीनं कृतं राज्यं ब्रह्मभक्त सुतस्ततः 3.1.3.
पितुस्तुल्यं कृतं राज्यं तस्मादात्मप्रपूजकः
पितुस्तुल्यं कृतं राज्यं तस्माद्धैरण्यवर्द्धनः
पितुस्तुल्यं कृतं राज्यं तद्विधातृप्रपूजकः
पितुस्तुल्यं कृतं राज्यं तस्माद्वैरञ्च्य उच्यते
पितुस्तुल्यं कृतं राज्यं शमवर्ती तु तत्सुतः
पितुस्तुल्यं कृतं राज्यं तस्माद्वै पितृवर्द्धनः
पितुस्तुल्यं कृतं राज्यं सौमदत्तिस्तदात्मजः
पितुस्तुल्यं कृतं राज्यमवतंसः सुतस्ततः
पितुस्तुल्यं कृतं राज्यं परातंसस्तदात्मजः
पितुस्तुल्यं कृत राज्यं समातंसस्तु तत्सुतः 3.1.3.
पितुस्तुल्यं कृतं राज्यमधितंसस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं समुत्तंसस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं दुष्यंतस्तनयस्ततः
पितुस्तुल्यं कृतं राज्यं दुष्यंतः स्वर्गतिं गतः
महामायाप्रभावेन षट्त्रिंशद्वर्षजीवनम्
तस्य नाम्ना स्मृतः खंडो भारतो नाम विश्रुतः
दिव्यं वर्षशतं राज्यं तस्माज्जातो महाबलः
दिव्यं वर्षशतं राज्यं तस्माद्भवनमन्युमान्