ईतयो न प्रवर्तंते तस्मान्मृत्युकृतं भयम् भुक्त्वा राज्यं चिरंकालमिन्द्रलोके महीयते
राष्ट्रे पुरे च नगरे सुरराजकेतोर्यत्रोत्सवो नृपजनैः क्रियते समेत्य
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महेन्द्रध्वजमहोत्सववर्णनं नामैकोनचत्वारिंशदुतरशततमोऽध्यायः
दीपालिकोत्सववर्णनम् श्रीकृष्ण उवाच पुरा वामनरूपेण याचयित्वा धरामिमाम्
इन्द्राय दत्तवान्राज्यं बलिं पातालवासिनम्
एकमेव हि भोगार्थं बलिराज्येतिचिह्नितम्
कार्त्तिके कृष्णपक्षस्य पञ्चदश्यां निशागमे
किमर्थं दीयते दानं तस्यां का देवता भवेत्
किंस्वित्तस्यै भवेद्देयं केभ्यो देवं जनार्दन
श्रीकृष्ण उवाच कार्त्तिके कृष्णपक्षे च चतुर्दश्यां दिनोदये
अपामार्गपल्लवान्वा भ्राभयेन्मस्तकोपरि
हर पापमपामार्ग भ्राम्यमाणं पुनःपुनः अपामार्ग नमस्तेस्तु शरीरं मम शोधय
( इत्यपामार्ग भ्रमण मन्त्रः) ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः वैवस्वताय कालाय सर्वभूतक्षयाय च ।।4.140.१
नरकाय प्रदातव्यो दीपः संपूज्य देवताः
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च मंदुरासु विविक्तासु हस्तिशालासु चैव हि
एवं प्रभातसमयेऽमावास्यायां नराधिप
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः
ततोऽपराह्णसमये घोषयेन्नगरे नृपः
लोकश्चापि परे हृष्येत्सुधाधवलिताजिरे
द्यूतपानरतोदृप्तनरनारीमनोहरे १८ . तांबूलहृष्ट वदने कुङ्कुमक्षोदचर्चिते
दुकूलपट्टनेपथ्ये स्वर्णमाणिक्यभूषिते 4.140.
युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि प्रदोषे दोषरहिते शस्तदोषागमे शुभे
शशिपूर्णमुखाभिश्च कन्याभिः क्षिप्ततण्डुलम्
भ्राम्यमाणो नतो मूर्घ्नि मनुजानां जनाधिपः नीराजनं तु तेनेह प्रोच्यते विजयप्रदम्
तस्माज्जनेन कर्तव्यं रक्षोदोषभयापहम्
क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम्
महता तूर्यघोषेण ज्वलद्भिर्हस्तदीपकैः
तं दृष्ट्वा महदाश्चर्यमृद्धिं चैवात्मनः शुभाम्