श्रुत्वैतद्वचनं राजा वसुर्वसुमतां वरः
श्रवणे स्थापयेद्यष्टिं स्नानवस्त्रैः प्रपूजिताम्
इन्द्रस्थाने पुरोद्दिष्टे इन्द्रमातृकसंज्ञके
वस्त्रैर्विचित्रैः संवीतां पिटिकालंकृतां तथा
प्रथमं लोकपालाख्यं चतुरस्रं सकर्णिकम्
वृत्तं खंडास्रकं रम्यं द्वितीयं रक्तचूर्णितम्
चतुर्थमिन्द्रगोपालवृत्तं मातृसमावृतम्
कृष्णकर्णिकया षष्ठं वृत्तं बुद्बुद शोभितम्
अष्टमं पिटकं वृत्तं वरत्रासूत्रवेष्टितम् ।। 4.139.
ब्रह्मविष्ण्वीशसहितं दशमं शिवसंस्थितम्
छात्रं द्वादशमं शुक्लं ध्वजदीर्घं त्रयोदशम्
बन्धयित्वा चन्द्रपादै रज्जुभिः स्थूणिकां नरैः
दक्षिणाभिश्च संपूज्य गुडपायसपूपकैः
प्रेक्षणीयैर्महादानैर्नटैगीतैः कथानकैः
वेश्यांगनानरैर्हृष्टैर्द्यूतक्रीडामहोत्सवैः
रात्रौ प्रजागरः कार्यो रक्षणाय प्रयत्नतः
काकाद्भवति दुर्भिक्षं कौशिकान्म्रियते नृपः
शैथिल्याद्गिरिभिच्छक्रः प्रमादान्नीयते यदि
यावत्तु नीयते स्थानादन्यस्मादैंद्रतो ध्वजः ।। 4.139.
इंद्रध्वजसमुत्थानं प्रमादान्न कृतं यदि
कथंचिद्यदि विघ्नः स्याद्विपाकं मे निबोध वै
मस्तके मन्त्रविच्छेदो मुखे मुख्यबलक्षयः
वरत्रायां मित्रनाशः स्थूणिकासु पदातयः
उत्थाप्य पूजयेद्भक्त्या दिवारात्रमतंद्रितः
सौवर्णं रौप्यकं कृत्वा पूर्णमुत्थापयेद्ध्वजम्
त्रपुसैः कर्कटीभिश्च नालिकेरैः कपित्थकैः
नैवेद्यादिभिरभ्यर्च्य मंत्रेणानेन तोषयेत् क्षेमार्थं सर्वलोकस्य पूजेयं प्रतिगृह्यताम्
श्रवणाद्भरणीं यावत्पूजां कृत्वा विधानतः
सार्थं सुरासुरगणैः पुरंदरशतक्रतो 4.139.
एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर