मेरोरुपरि संस्थाप्य सिद्धविद्याधरोरगैः
स्वच्छत्रघंटापिटकैः किंकिणीबद्धबुद्बुदैः गता रसातलं दैत्या देवाश्चापि दिवि स्थिताः
ततः प्रभृति तां दिव्यामिंद्रयष्टिं यजंति ते
अतः स्वर्गं गतो राजा भूरिपुण्यवशाद्वसुः
तस्मै दता महेन्द्रेण वसुयष्टिः प्रगृह्यताम्
अवतार्य वर्षासमये सर्वैर्नृपतिभिः सह
महेन मघवा प्रीतो ददौ पुण्यं वसोर्वरम्
येषु देशेषु मनुजा भक्तिभावपुरःसराः
तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः 4.139.
भविष्यंति सुवेषाश्च सुभाषाश्च सुभूषणाः
श्रुत्वैतद्वचनं राजा वसुर्वसुमतां वरः
श्रवणे स्थापयेद्यष्टिं स्नानवस्त्रैः प्रपूजिताम्
इन्द्रस्थाने पुरोद्दिष्टे इन्द्रमातृकसंज्ञके
वस्त्रैर्विचित्रैः संवीतां पिटिकालंकृतां तथा
प्रथमं लोकपालाख्यं चतुरस्रं सकर्णिकम्
वृत्तं खंडास्रकं रम्यं द्वितीयं रक्तचूर्णितम्
चतुर्थमिन्द्रगोपालवृत्तं मातृसमावृतम्
कृष्णकर्णिकया षष्ठं वृत्तं बुद्बुद शोभितम्
अष्टमं पिटकं वृत्तं वरत्रासूत्रवेष्टितम् ।। 4.139.
ब्रह्मविष्ण्वीशसहितं दशमं शिवसंस्थितम्
छात्रं द्वादशमं शुक्लं ध्वजदीर्घं त्रयोदशम्
बन्धयित्वा चन्द्रपादै रज्जुभिः स्थूणिकां नरैः
दक्षिणाभिश्च संपूज्य गुडपायसपूपकैः
प्रेक्षणीयैर्महादानैर्नटैगीतैः कथानकैः
वेश्यांगनानरैर्हृष्टैर्द्यूतक्रीडामहोत्सवैः
रात्रौ प्रजागरः कार्यो रक्षणाय प्रयत्नतः
काकाद्भवति दुर्भिक्षं कौशिकान्म्रियते नृपः
शैथिल्याद्गिरिभिच्छक्रः प्रमादान्नीयते यदि
यावत्तु नीयते स्थानादन्यस्मादैंद्रतो ध्वजः ।। 4.139.
इंद्रध्वजसमुत्थानं प्रमादान्न कृतं यदि