अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा
दुर्गा संपूजनीया च तद्दिनाद्द्रोणपुष्पया
ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दनम्
पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम् 4.138.
दानवांस्तर्जयती च खड्गोद्धतकरां शुभाम्
ततो जयजयाकारैः स्तवं कुर्यादिमं ततः
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
कुंकुमेन समालब्धे चन्दनेन विलेपिते
कृत्वैवमर्च्चां कौरव्य अष्टम्यां जागरं निशि
एवं हृष्टैर्निशां नीत्वा प्रभाते चारुणोदये
शतं चापि शतार्धं वा तदर्द्धं वा यथेच्छया
कापालिकेभ्यस्तद्देयं दासीदासजनैस्तथा
ततोपराह्णसमये नवम्यां स्यंदने स्थिताम्
सहस्रैः पुरुषैर्वापि रथयुक्तैः सुशिक्षितैः 4.138.
आकृष्टखड्गैर्वीरैश्च धातुरक्तैर्गजैस्तथा अलंकृताभिर्नारीभिर्बालकैः सुविभूषितैः
भूतेभ्यस्तु बलिं दद्यान्मंत्रेणानेन सामिषम् १
त्रींस्त्रीन्वारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम्
मरुतोऽथाश्विनौ रुद्राः सुपर्णा पन्नगा ग्रहाः १०४ शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः
दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः १
सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः। सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ।।१
इत्येवं भ्रामयेद्राष्ट्रे दुर्गां देवी रथे स्थिताम् १
अथोत्पन्नेषु विप्रेषु भूतशांतिं समाचरेत् १
एवं ये कुर्वते यात्रां राजानोऽन्येऽपि मानवाः 4.138.११
ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुरीम् ।।१
न तेषां शावको नाग्निर्न चौरा न विनायकाः
नीरुजः सुखिनो भोगभोक्तारो भयवर्जिताः
इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः
शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामृत्खातखड्गरुचिरांगदबाहुदण्डाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनंनामाष्टत्रिंशदुत्तरशततमोऽध्यायः
महेन्द्रध्वजमहोत्सववर्णनम् विजयार्थं महेन्द्रस्य ध्वजयष्टिः प्रतिष्ठिता