हिरण्यं च शरीरं ते धाता देवो जनार्दनः
(इति खड्गमन्त्रः रक्ष मां रक्षणीयोऽहं तव वर्मन्नमोऽस्तु ते
( इति वर्ममन्त्रः दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पन
यथा जीमूतघोषेण हृष्यंति वरवारणाः 4.138.
यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते
( इति दुंदुभिमंत्रः चाप मां सर्वदा रक्ष साकं सायकसत्तमैः
( इति चापमन्त्रः विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव
( इति शङ्खमन्त्रः प्रोत्सारयाशु दुरितं चामरामरवल्लभ
( इति चामरमंत्रः शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिपरिग्रहम्
चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणि
सर्व सत्त्वांगभूतासि सर्वाशुभनिवारिणि
( इतिच्छुरिकामंत्रः ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये
यशो देहि सुखं देहि जयदो भव भूपतेः
( इति कनकदण्डमन्त्रः दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ।।4.138.
एतेऽष्टौ संनिधौ यस्मात्तव सिंहा महाबला तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे
त्वयि स्थितः शिवः साक्षात्त्वयि शक्रसुरेश्वरः
नमस्ते सर्वतोभद्र भद्रदो भव भूपतेः
( इति सिंहासनमंत्र फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः
अष्टम्यां धावनं कृत्वा पूर्वाह्ने स्नानमाचरेत्
( अथ गद्यम्) दुर्गां कांचनमूर्तिं रौप्यां वा पैत्तलीं वार्क्षी चैत्रीं ताम्रीं वाधिभवतः कृत्वा दारुविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्नातां कुंकुमचंदनगंधैश्चतुःसमैश्चीरपट्टैश्चर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्वि जननैर्जनितपरितोषैर्दिवान्वितो नरेद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्धं बिल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै जयंती मंगला काली भद्रकाली कपालिनी
अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा
दुर्गा संपूजनीया च तद्दिनाद्द्रोणपुष्पया
ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दनम्
पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम् 4.138.
दानवांस्तर्जयती च खड्गोद्धतकरां शुभाम्
ततो जयजयाकारैः स्तवं कुर्यादिमं ततः
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
कुंकुमेन समालब्धे चन्दनेन विलेपिते
कृत्वैवमर्च्चां कौरव्य अष्टम्यां जागरं निशि
एवं हृष्टैर्निशां नीत्वा प्रभाते चारुणोदये