इति ते कथितं विप्र व्रतानामुत्तमं व्रत 3.2.29.
व्रतानां चैव सर्वेषां श्रेष्ठं नारायणव्रतम्
त्वन्मुखेन श्रुतं सूत तापत्रयविनाशनम्
सर्वेषां ब्रह्मचर्याणां ब्रह्मचर्ये हि किं परम्
वेदवेदांगतत्त्वज्ञो यमलोकभयान्वितः
ज्ञात्वा घोरतमं कालं कलि कालमधर्मजम्
केनाश्रमेण वर्णेन मम श्रेयो भवेदिह
वानप्रस्थः कलौ नास्ति ब्रह्मचर्यं क्वचित्क्वचित्
अतः स्त्री संग्राह्यो मया घोरे कलौ युगे तर्हि मे सफलं जन्म मम श्रेयो भवेदिह
इत्येवं संमतं कृत्वा शिवां मंगलदायिनीम् विश्वेश्वरीं जगन्मूर्तिं सच्चिदानंदरूपिणीम्
पितृशर्मोवाच त्रिगुणैक्यस्वरूपायै तुरीयायै नमोनमः ।। 3.2.30.
महत्तत्त्वजनन्यै च द्वंद्वकर्त्र्यै नमोनमः
पृथग्गुणायै शुद्धायै नमो मातर्नमोनमः
नमो मातरविद्यायै ततः शुद्ध्यै नमोनमः
स्त्रियै शुद्धरजोमूर्त्यै नमस्त्रैलोक्यवासिनि
इति श्रुत्वा स्तवं देव्या प्रसादः स्थापितस्तया
तामुद्वाह्य द्विजो देवीं नाम्ना वै ब्रह्मचारिणीम्
प्रियायै स रजोवत्यै ऋतुदानं करोति हि
ऋग्यजुश्च तथा साम तुर्यश्चासी दथर्वणः
यजुषस्तु सुतो जातो मीमांसो लोकविश्रुतः
पुत्रो वररुचिः श्रेष्ठोऽथर्वणस्य नृपप्रियः ।। ते गता मागधेशस्य चन्द्रगुप्तस्य वै सभाम् 3.2.30.
नृपस्तान्पूजयामास बहुमानपुरःसरम्
व्याडिराह महाराज यः स्तुतौ तत्परः पुमान्
मीमांसश्चाह भो राजन्यज्ञे यो हि पुमान्परः
हवनं तर्पणं कृत्वा ब्रह्मादिकसुरान्प्रति
श्रुत्वेदं पाणिनिश्चाह चन्द्रगुप्त शृणुष्व भोः
तथैव सूत्रपाठैश्च लिंगधातुगणावृतैः
श्रुत्वा वररुचिश्चाह शृणु मागधभूपते
दंडलोमनखाधारी भिक्षार्थी वेदतत्परः
इति तेषां वचः श्रुत्वा पितृशर्माब्रवीदिदम्