दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः
शीर्णसूक्ष्मेण पत्रेण बाला मालानुमोदिताः 4.136.
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम्
चरैः किलासैः संप्राप्तः सर्वोद्वेगकरः परम्
प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमोहितः
सितकेशं सितश्मश्रुसितांबरधरं द्विजम्
गृहान्निष्क्रम्यतां रंडा वृद्धो भूत्वाप्यसौ स्त्रियाः
भैरवाभरणोत्ताला व्यालयज्ञोपवीतिनः
निर्वेदकोऽस्य हृदये न किंचिदपि तिष्ठति
रक्तदृक्काककृष्णांगं शबरं किं न पश्यत
बहुभिः कोष्ठकीकृत्य शरौघैः शकलीकृतम्
इमां कृष्णार्द्धवदनां गृहीतां सिंदुरार्चिताम् 4.136.
गंभीरतूर्यध्वनिना प्रबुद्धां वृत्ततांडवाम्
एवं कृते न दारिद्र्यं न च दुःखं भवेन्नृणाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूतमात्रुत्सववर्णनं नाम षटत्रिंशदुत्तरशततमोऽध्यायः
रक्षाबन्धनवर्णनम् तं शृण्वेकाग्रमनसा समासाद्गदितं मया
पुरा देवासुरे युद्धे दानवा सुरनिर्जिताः
दैवाद्भवंति भूतानां काले जयपराजयाः
संधानं सह शक्रेण क्रियतामयनद्वयम
रक्षाबंधप्रभावेन दानवेन्द्रो जितो महान्
भार्गवेणैवमुक्तास्ते दानवा विगतज्वराः
एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर
कस्यां तिथौ कदा देव एतन्मे वक्तुमर्हसि
यथा यथा हि भगवान्विचित्राणि प्रभाषते
संप्राप्ते श्रावणे चैव पौर्णमास्यां दिनोदये ।। 4.137.
स्नानं कुर्वीत मतिमाञ्श्रुतिस्मृतिविधानत
उपाकर्मादिवेदोक्तमृषीणां चैव तर्पणम्
शूद्राणां मंत्रसहितं स्नानं दानं च शस्यते
ततोपराह्नसमये रक्षापोटलिकाः शुभाः
वस्त्रैर्विचित्रैः कार्पासैः क्षौमैर्वा मलवर्जितैः