रतस्थयोस्तयोर्जातं दिव्यवर्षशतं यदा
मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा 4.136.
कपालमालाभरणा बद्धपिंडोर्ध्वपिंडिका
व्याघ्रचर्मांबरधरा रणत्किंकिणिमेखला
उत्तालतालमबला नृत्यंति च हसंति च
कपालखट्वाङ्गधरा गजचर्मावगुण्ठिताः
अनुगम्यमानो बहुभिर्भूतैरतिभयंकरैः
एकीभूतैः क्षणेनैव तौ भवानीभवोद्भवौ
कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ
भ्रातृभांडौ यथा देवि तद्वदेतौ मतौ मम
भ्रातृभांडा भूतमाता तथैवोदकसेविका
भुक्त्वार्होपगतां चैतां जरत्तरुतले स्थिताम् 4.136.
चन्दनेन समालभ्य पुष्पधूपैरथार्च्य ताम्
य एवं कुरुते देवि भक्तिभावेन भावितः
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः
पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि
नामभेदैः क्रियाभेदैः कालभेदैश्च पूज्यते
प्रतिपत्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः
विकर्मफलनिर्देशः पांडवानां विडंबनम्
विश्वास्यधनलोभेन संध्यायां निहतः पथि
दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः
शीर्णसूक्ष्मेण पत्रेण बाला मालानुमोदिताः 4.136.
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम्
चरैः किलासैः संप्राप्तः सर्वोद्वेगकरः परम्
प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमोहितः
सितकेशं सितश्मश्रुसितांबरधरं द्विजम्
गृहान्निष्क्रम्यतां रंडा वृद्धो भूत्वाप्यसौ स्त्रियाः
भैरवाभरणोत्ताला व्यालयज्ञोपवीतिनः
निर्वेदकोऽस्य हृदये न किंचिदपि तिष्ठति
रक्तदृक्काककृष्णांगं शबरं किं न पश्यत