चैत्रोत्सवे सकललोकमनोनिवासं कामं वसंतमलयाद्रिमरुत्सहायम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर रसंवादे मदनमहोत्सववर्णनं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः
भूतमात्र्युत्सववर्णनम् गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति
उन्मत्तवत्प्रलपति क्षितौ पतति मत्तवत्
मुखांगभंगान्कुरुते लोके वातगृहीतवत्
किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः
आस्तिकः श्रद्दधानश्च भवतीति मतिर्मम
पार्वत्या सहितः पार्थ मन्दरे चारुकन्दरे
हंसोन्नतगतिं चारुकुम्भभ्राजिकुचद्वयम्
दग्धकामोऽपि च हरः संदीप्तमदनोऽभवत्
रतस्थयोस्तयोर्जातं दिव्यवर्षशतं यदा
मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा 4.136.
कपालमालाभरणा बद्धपिंडोर्ध्वपिंडिका
व्याघ्रचर्मांबरधरा रणत्किंकिणिमेखला
उत्तालतालमबला नृत्यंति च हसंति च
कपालखट्वाङ्गधरा गजचर्मावगुण्ठिताः
अनुगम्यमानो बहुभिर्भूतैरतिभयंकरैः
एकीभूतैः क्षणेनैव तौ भवानीभवोद्भवौ
कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ
भ्रातृभांडौ यथा देवि तद्वदेतौ मतौ मम
भ्रातृभांडा भूतमाता तथैवोदकसेविका
भुक्त्वार्होपगतां चैतां जरत्तरुतले स्थिताम् 4.136.
चन्दनेन समालभ्य पुष्पधूपैरथार्च्य ताम्
य एवं कुरुते देवि भक्तिभावेन भावितः
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः
पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि
नामभेदैः क्रियाभेदैः कालभेदैश्च पूज्यते
प्रतिपत्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः
विकर्मफलनिर्देशः पांडवानां विडंबनम्
विश्वास्यधनलोभेन संध्यायां निहतः पथि