झल्लरीवाद्यसंघुष्टभांडागारिकलेखकः
दक्षिणानिलगंधाढ्यः कटाक्षेक्षितवर्षवान्
स पुष्पचापमाकृष्य मदनोन्मादनं शरम्
बुद्ध्वा तं तस्य संकल्पं रुद्रः क्रोधाज्ज्वलन्रुषा
कामो विलोकितस्तेन भस्मीभूतश्च तत्क्षणात् 4.135.
करुणं विलपंत्यौ ते सर्वमन्यद्दिशं गतम्
भगवन्नस्मदर्थे तं कामं निर्दग्धवानसि
कुरु प्रसादं देवेश रतिप्रीत्ये वृषध्वज
तच्छ्रुत्वा तु महादेवो हृष्टः प्रोवाच पार्वतीम्
मया दग्धस्य कामस्य पुनरागमनं कुतः
अस्मिन्वसंतसमये शुक्लपक्षे त्रयोदशी
एतेन बीजभूतेन जगद्वर्णिष्यतेऽखिलम्
जगाम हिमवच्छृंगं कैलासं पार्वतीप्रियः
पूजाविधानमपरं कथयामि शृणुण्व तत्
सिन्दूरजनितैरंगैरतिप्रीति समन्वितम् । कामदेवं वसंतं च वाजिवक्त्रं झषध्वजम् ।। 4.135.
सौवर्णं वा महाराज वार्क्षं चित्रमथापि वा
गन्धर्वगीतवादित्रप्रेक्षणीयसमाकुलम्
मध्याह्ने भोजयेद्भक्त्या भक्ष्यैर्धूपैःस्रगंबरैः
नमो वामाय कामाय देवदेवाय मूर्तये
कृत्वैवमर्चयित्वा तु देवदेवमनोभवम्
नानाप्रकारान्भक्ष्यांश्च कामो मे प्रीयतामिति
स्वपतिं पूजयेन्नारी वस्त्रमालाविभूषणैः
मन्मथायतने तस्मिन्यजमानः सुहृद्वृतः
कर्पूरकुंकुमक्षोदगंधतांबूलसर्जनैः
दीपप्रज्वालनैर्नृत्यैः प्रेक्षणैः प्रेक्षणोत्सवैः 4.135.
वसंतसमये प्राप्ते हृष्टस्तुष्टो नृपः पुरे
सुभिक्षं क्षेममारोग्यं यशः श्रीः सौख्यमुत्तमम्
तुष्यते तु भृशं देवो द्वादशार्द्धार्द्धलोचनः
चन्द्रसूर्यादिका सर्वे ग्रहा ब्रह्मर्षयस्तथा
असुरा यातुधानाश्च सुपर्णाः पतगा नगाः