अष्टम्यां च चतुर्दश्यां सम्पूज्यः शशिशेखरः
दशम्यामृषयः शांताः सर्वे व्यासपुरस्सराः
त्रयोदश्यां त्रिनेत्रोत्थवह्निना शांतविग्रहम्
आंदोलके मदनके रथयात्रासु चैव हि यात्रा वासंतिकी चेयं चित्तस्वास्थ्यकरी परा।।4.134.
सम्यक्सुधाधवलिते भवने सुराणामंतस्सुवस्त्रमणिमौक्तिकदानचित्रे
मदनमहोत्सववर्णनम् उमापतिः पशुपतिर्ध्यानासक्तो बभूव ह
ब्रह्मादिभिः समामंत्र्य विबुधैः पुत्रलब्धये
प्रहितः क्षोभणार्थाय समर्थ इति मन्मथः
रतिप्रीतिमदोन्मादवसंतश्रीसहायवान्
आम्राशोकवनोत्तंसो मालतीकृतशेखरः
झल्लरीवाद्यसंघुष्टभांडागारिकलेखकः
दक्षिणानिलगंधाढ्यः कटाक्षेक्षितवर्षवान्
स पुष्पचापमाकृष्य मदनोन्मादनं शरम्
बुद्ध्वा तं तस्य संकल्पं रुद्रः क्रोधाज्ज्वलन्रुषा
कामो विलोकितस्तेन भस्मीभूतश्च तत्क्षणात् 4.135.
करुणं विलपंत्यौ ते सर्वमन्यद्दिशं गतम्
भगवन्नस्मदर्थे तं कामं निर्दग्धवानसि
कुरु प्रसादं देवेश रतिप्रीत्ये वृषध्वज
तच्छ्रुत्वा तु महादेवो हृष्टः प्रोवाच पार्वतीम्
मया दग्धस्य कामस्य पुनरागमनं कुतः
अस्मिन्वसंतसमये शुक्लपक्षे त्रयोदशी
एतेन बीजभूतेन जगद्वर्णिष्यतेऽखिलम्
जगाम हिमवच्छृंगं कैलासं पार्वतीप्रियः
पूजाविधानमपरं कथयामि शृणुण्व तत्
सिन्दूरजनितैरंगैरतिप्रीति समन्वितम् । कामदेवं वसंतं च वाजिवक्त्रं झषध्वजम् ।। 4.135.
सौवर्णं वा महाराज वार्क्षं चित्रमथापि वा
गन्धर्वगीतवादित्रप्रेक्षणीयसमाकुलम्
मध्याह्ने भोजयेद्भक्त्या भक्ष्यैर्धूपैःस्रगंबरैः
नमो वामाय कामाय देवदेवाय मूर्तये
कृत्वैवमर्चयित्वा तु देवदेवमनोभवम्