आरोपयेद्रथे देवं मूलमंत्रेण मंत्रवित्
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः शंखदुंदुभिनिर्घोषैः काहलानां च निःस्वनैः
दोषासुखेन रमितं प्रेषणीयपुरःसरम्
तांबूलानि रथे दद्यात्पुष्पमालायुतानि च
यस्ययस्य गृहेभ्येति प्रेरितो रथिना रथः । ।। 4.134.
इतरोऽपि भवेत्पूज्यः संप्राप्ते गृहिणां गृहे
कदाचिदक्षभङ्गः स्याद्ध्वजभंगोऽथ वा भवेत्
ब्राह्मणांस्तत्र संपूज्य होमः कार्यो विजानता
प्रेरणीप्रेक्षणीयैश्च भ्रामयित्वा रथोत्तमम्
दोलाग्राहैश्चक्रदोलाभ्रमैर्डमरकैस्तथा
एवं यः कुरुते पार्थ सुखदं तु रथोत्सवम्
यः कारयित्वा सौवर्णं रौप्यं वा रथमुत्तमम्
वर्णकैश्चित्रितं दिव्यं दारुजं वा सुशोभनम्
स मर्त्यलोके सुचिरात्सुखानि च समश्नुते
स्थापयेत्सर्वभागे तु गेयं वाद्यपुरःसरम् 4.134.
तत्रापि जागरं कुर्याद्वाद्यगीतसुमं गलैः
प्रेक्षणीयविनोदेन तां रात्रिमतिवाहयेत्
महायात्रां प्रकुर्वीत तत्राप्यद्भुतचेष्टितम् ६३ पूजयित्वा विधानेन षष्ठेऽह्नि भवनं नयेत्
सर्वपापहरा पुण्या किञ्चिदन्यन्निबोध मे
पञ्चम्यां पंकजकरां पूजयेद्वा सरस्वतीम्
अष्टम्यां च चतुर्दश्यां सम्पूज्यः शशिशेखरः
दशम्यामृषयः शांताः सर्वे व्यासपुरस्सराः
त्रयोदश्यां त्रिनेत्रोत्थवह्निना शांतविग्रहम्
आंदोलके मदनके रथयात्रासु चैव हि यात्रा वासंतिकी चेयं चित्तस्वास्थ्यकरी परा।।4.134.
सम्यक्सुधाधवलिते भवने सुराणामंतस्सुवस्त्रमणिमौक्तिकदानचित्रे
मदनमहोत्सववर्णनम् उमापतिः पशुपतिर्ध्यानासक्तो बभूव ह
ब्रह्मादिभिः समामंत्र्य विबुधैः पुत्रलब्धये
प्रहितः क्षोभणार्थाय समर्थ इति मन्मथः
रतिप्रीतिमदोन्मादवसंतश्रीसहायवान्
आम्राशोकवनोत्तंसो मालतीकृतशेखरः