प्रयातः स्वरथारूढः कृतकर्णकुलाकुलः
रथारूढैरमूढात्मा मर्त्यलोकमवातरत्
नारदेन यथैवोक्तस्तावत्सर्वं तदक्षरम्
देवैः सार्द्धं पशुपतिर्यावत्पश्यति विस्मितः
गायंति केचित्सोत्कंठं लुठंत्यन्ये प्रहर्षिताः
वादयंत्यन्यथा वाद्यं गायंत्यन्येन्यथा गणाः 4.134.
नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः
सुराणां क्षोभमालक्ष्य भगवान्गोवृषध्वजः
अनर्थमुत्थितं तद्वत्तद्विघाताय ये जनाः
वसंतः स्वामिभक्तत्वान्मान्यपुष्पाकरं यदा
संचिंत्यैवं समानाय्य वसंतं प्राह शंकरः
सितपक्षः सहायोऽयं सर्वभूतसुखप्रदः
यो यथा रथमारूढः समायातः समीक्षितुम्
कारयिष्यन्ति ये मर्त्या रथयात्रामहोत्सवम्
एवमाभाष्य भगवान्वसंतं च ततः सुरैः
आरोपयेत्कथं देवान्रथे वद जगत्पते ।। 4.134.
सुदृढाक्षं दृढाबंधं सुचक्ररथकूबरम्
अथ वा वंशविहितं नेत्रपट्टपटावृतम्
सितगोयुगसंयुक्तं पञ्चबाणपताकिनम्
वैश्वदेवं ततः कुर्याद्ग्रहयज्ञविधानतः
आरोपयेद्रथे देवं मूलमंत्रेण मंत्रवित्
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः शंखदुंदुभिनिर्घोषैः काहलानां च निःस्वनैः
दोषासुखेन रमितं प्रेषणीयपुरःसरम्
तांबूलानि रथे दद्यात्पुष्पमालायुतानि च
यस्ययस्य गृहेभ्येति प्रेरितो रथिना रथः । ।। 4.134.
इतरोऽपि भवेत्पूज्यः संप्राप्ते गृहिणां गृहे
कदाचिदक्षभङ्गः स्याद्ध्वजभंगोऽथ वा भवेत्
ब्राह्मणांस्तत्र संपूज्य होमः कार्यो विजानता
प्रेरणीप्रेक्षणीयैश्च भ्रामयित्वा रथोत्तमम्
दोलाग्राहैश्चक्रदोलाभ्रमैर्डमरकैस्तथा