वसंतस्य प्रभावोऽयं कोऽप्यपूर्वो विजृंभते
वृक्षाः पक्षिशताकीर्णा विजिघ्राणमुखाः सुराः
कृतः प्रत्यक्षसुमहान्वसंतो न जगत्त्रये
उभावपि प्रतप्येते पश्येदं कामचेष्टितम्
पादपाः पल्लवशतैर्नृत्यंते च प्रहर्षिणः
कौतुकाकुलितः शीघ्रमारुरोह रथं स्वकम् 4.134.
प्रययौ पुण्डरीकाक्षः शंखचक्रगदाधरः
आस्थाय प्रययौ हृष्टो ब्रह्मा ब्राह्मणसंस्तुतः
वृतो रथेन प्रययौ भास्करो वारितस्करः
कात्यायनी प्रचलिता पञ्चवक्त्रेण केतुना
प्रयातः स्वरथारूढः कृतकर्णकुलाकुलः
रथारूढैरमूढात्मा मर्त्यलोकमवातरत्
नारदेन यथैवोक्तस्तावत्सर्वं तदक्षरम्
देवैः सार्द्धं पशुपतिर्यावत्पश्यति विस्मितः
गायंति केचित्सोत्कंठं लुठंत्यन्ये प्रहर्षिताः
वादयंत्यन्यथा वाद्यं गायंत्यन्येन्यथा गणाः 4.134.
नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः
सुराणां क्षोभमालक्ष्य भगवान्गोवृषध्वजः
अनर्थमुत्थितं तद्वत्तद्विघाताय ये जनाः
वसंतः स्वामिभक्तत्वान्मान्यपुष्पाकरं यदा
संचिंत्यैवं समानाय्य वसंतं प्राह शंकरः
सितपक्षः सहायोऽयं सर्वभूतसुखप्रदः
यो यथा रथमारूढः समायातः समीक्षितुम्
कारयिष्यन्ति ये मर्त्या रथयात्रामहोत्सवम्
एवमाभाष्य भगवान्वसंतं च ततः सुरैः
आरोपयेत्कथं देवान्रथे वद जगत्पते ।। 4.134.
सुदृढाक्षं दृढाबंधं सुचक्ररथकूबरम्
अथ वा वंशविहितं नेत्रपट्टपटावृतम्
सितगोयुगसंयुक्तं पञ्चबाणपताकिनम्
वैश्वदेवं ततः कुर्याद्ग्रहयज्ञविधानतः