तमुपासीनमालक्ष्य भगवान्भगनेत्रहा
वसंतो नाम कोऽप्येष कामस्य दयितः सखा
मलयानिलयुक्तेन तेन विश्वं वशीकृतम्
पोषयामास विजयं मन्मथस्य पुरेपुरे
कोयं च डिम्बो वा ब्रह्मा कामस्त्रिजगतां प्रभुः
ऊर्ध्वबाहुस्तु नर्नर्ति तालदत्तपदक्रमः 4.134.
गायंतश्च परीहृष्टास्ते चाप्यायांति यांति च
तेऽपि गायंति नृत्यंति हसंति स्मरतारकाः
विटं पश्यंति कुलटाः प्रारब्धोचितपण्डिताः
एवमेतत्त्रिलोकेऽस्मिन्निति व्यवसितो जनः
वसंतस्य प्रभावोऽयं कोऽप्यपूर्वो विजृंभते
वृक्षाः पक्षिशताकीर्णा विजिघ्राणमुखाः सुराः
कृतः प्रत्यक्षसुमहान्वसंतो न जगत्त्रये
उभावपि प्रतप्येते पश्येदं कामचेष्टितम्
पादपाः पल्लवशतैर्नृत्यंते च प्रहर्षिणः
कौतुकाकुलितः शीघ्रमारुरोह रथं स्वकम् 4.134.
प्रययौ पुण्डरीकाक्षः शंखचक्रगदाधरः
आस्थाय प्रययौ हृष्टो ब्रह्मा ब्राह्मणसंस्तुतः
वृतो रथेन प्रययौ भास्करो वारितस्करः
कात्यायनी प्रचलिता पञ्चवक्त्रेण केतुना
प्रयातः स्वरथारूढः कृतकर्णकुलाकुलः
रथारूढैरमूढात्मा मर्त्यलोकमवातरत्
नारदेन यथैवोक्तस्तावत्सर्वं तदक्षरम्
देवैः सार्द्धं पशुपतिर्यावत्पश्यति विस्मितः
गायंति केचित्सोत्कंठं लुठंत्यन्ये प्रहर्षिताः
वादयंत्यन्यथा वाद्यं गायंत्यन्येन्यथा गणाः 4.134.
नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः
सुराणां क्षोभमालक्ष्य भगवान्गोवृषध्वजः
अनर्थमुत्थितं तद्वत्तद्विघाताय ये जनाः
वसंतः स्वामिभक्तत्वान्मान्यपुष्पाकरं यदा