श्रीमहादेव उवाच वसंते कारयिष्यंति मंडिते त्रिदशांगणे
नेत्रपट्टापटच्छन्नां पद्मरागविभूषि ताम्
विचित्राभरणाभाभिराभासितदिगंतराम्
मालां विद्याधराक्रातां प्रांतरोपितदर्पणाम्
अग्निकार्यं ततः कृत्वा क्षिप्त्वा चैव दिशां बलिम्
मूलमंत्रेण देवानां प्रोक्तं दोलाधिरोहणम् 4.133.
गंभीरांतरनिर्घोषैर्ललनानां च निस्वनैः
एतस्मिन्नन्तरे नारीं दोहनाय निकुट्टकाम्
सुवर्णशृंगिणा प्रोक्तं स्मितदंतांशुकर्बुरम्
जलसंक्लिन्नवसनो रशनादाममंडितः
कुंकुमक्षोदतांबूलपुष्प मालाकुलो जनः
पीतशीतजलाघात ताडितोऽपि जनः सुखम्
एवं ये तु गमिष्यंति नरा वर्त्मतया गतम्
पुत्रपौत्रसमा युक्ता धनधान्यसमायुताः
प्राप्ते वसंतसमये सुरसत्तमानामान्दोलनं सुरवराननुकुर्वते ये
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठि रसंवाद आन्दोलकविधिवर्णनं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
दमनकांदोलकरथयात्रामहोत्सववर्णनम् स्थिरो भूत्वा निबोधेदं त्वं हि मूर्तविदां वरः
चैत्रे त्रिनेत्रसंभूतमलयाख्यमहागिरौ
एतस्मिन्नेव काले तु भ्रममाणो यदृच्छया
दृष्ट्वापूर्वं शिवं शांतं सुरेशैः सर्वतो वृतम्
तमुपासीनमालक्ष्य भगवान्भगनेत्रहा
वसंतो नाम कोऽप्येष कामस्य दयितः सखा
मलयानिलयुक्तेन तेन विश्वं वशीकृतम्
पोषयामास विजयं मन्मथस्य पुरेपुरे
कोयं च डिम्बो वा ब्रह्मा कामस्त्रिजगतां प्रभुः
ऊर्ध्वबाहुस्तु नर्नर्ति तालदत्तपदक्रमः 4.134.
गायंतश्च परीहृष्टास्ते चाप्यायांति यांति च
तेऽपि गायंति नृत्यंति हसंति स्मरतारकाः
विटं पश्यंति कुलटाः प्रारब्धोचितपण्डिताः
एवमेतत्त्रिलोकेऽस्मिन्निति व्यवसितो जनः