या यस्य जंतोः प्रकृतिः शुभा वा यदि वेतरा
तत्स्वभावप्रवृत्तस्य यदि शापस्त्वया मम ।। प्रदत्तः किं करोम्येतन्न कृत्यमपराध्यति ।ऽ
युक्तियुक्तं वचः श्रुत्वा दमनेन समी रितम्
वसंते सहकारोत्थमंजरीपिंजरे जने
तस्मिन्काले सुरेशानां शिरांस्याक्रम्य लीलया
ये त्वामारोपयिष्यंति दानमानपुरस्सराः 4.133.
सर्वदैव शिवस्येष्टा पुण्या पापभयापहा
एवमुक्त्वा ययौ ब्रह्मा दमनो मंदरे गिरौ
दिव्ये गिरौ गिरिसु तादयिताधिवासे रत्नांशुकच्छुरितकाञ्चनभूमिभागे
प्रवृत्तनरनारीकं पञ्चमोच्चारसुन्दरम्
सानंदं नंदनवने आर्द्रया सहितो यथा
उन्मादयन्वने पुण्ये विद्याधरगणान्बहून्
संतानपारिजातोत्थां बद्ध्वा स माधवीलताम्
गीतमांदोलकारूढस्तद्गायंत्यमर स्त्रियः
तं दृष्ट्वाष्टापदनिभा भवानी प्राह शंकरम्
आदोलकं मम कृते कारयस्व स्वलंकृतम् 4.133.
तद्गौरीवचनं रम्यं श्रुत्वा गोवृषभध्वजः
स्तंभद्वयं रोपयित्वा इष्टापूर्तमयं दृढम्
वासुकिं दंडकस्थाने बद्ध्वा तांतवसप्रभम्
कृमिकार्पासकौशेयवस्त्रैः संवेष्टितं नवैः
रचयित्वा विचित्रां तां दोलां चैलाजिनोत्तराम्
तत्रारूढस्तु यावत्स सौम्यसोमविभूषणः
वामपार्श्वे तु विजया दक्षिणेन जया भवेत्
आदोलयंत्या पार्वत्या सहितं स गदाक्षरम्
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः
चेलुः कुलाचलाः सर्वे चुक्षुभुः सप्त सागराः 4.133.
आलोक्य व्याकुलं लोकं देवाः शक्रपुरोगमाः
उपारमस्व भगवन्भवतः क्रीडयानया
गीर्वाणगीर्भिः संहृष्टः शंकरो लोकशंकरः
उवाच वचनं पार्थ सुरसार्थस्य पश्यतः