सत्यं हृदिस्थकामस्य तत्पूर्तिर्जायतेञ्जसा
दद्याद्दानं यथाशक्त्या कामो मे प्रीयतामिति
प्राश्नीयात्प्रथमं चान्नं ततो भुञ्जीत कामतः
अनायासेन सिध्यंति तस्य सर्वे मनोरथाः
पुत्रपौत्रसमायुक्तः सुखं तिष्ठति मानवः
पुण्या पवित्रा जयदा सर्वविघ्रविनाशिनी 4.132.
वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च
आन्दोलकविधिवर्णनम् दमनेन कथं लोकैः पूज्यंते नाकनायकाः
दोलांदोलनमाहात्म्यं रथयात्रामहोत्सवम्
यदेतद्भवता पृष्टं तच्छृणुष्व वदामि ते ।। ३४ पुरा सुराणामावासे मंदरे चारुकंदरे
तस्य गंधमनाघ्रेयमाघ्राय सुरयोषितः
ऋषयो नियमांस्त्यक्त्वा प्राद्रवंत गृहान्प्रति ।। न वेदाध्ययने ध्याने रतिस्तेषां बभूव ह
अपराधाद्विघटितं यद्बभूव प्रिये परम्
गंधेनाकुलितं लोकं दृष्ट्वा ब्रह्मा तमब्रवीत्
ब्रह्मोवाच जातस्त्वं लोकदमनान्नूनं दमनको मया
यत्संतस्त्वनुमन्यंते सर्वा तिशयवर्जितम् 4.133.
एकस्याप्यपकारं यः करोति स नराधमः
दृष्टार्थबाधकं कर्म न कर्तव्यं कथंचन
ततः स्वयं प्रभजति दैवे पित्र्ये च कर्मणि
स्वभाव एष मे ब्रह्मंस्त्वया सृष्टः पुरा विभो
या यस्य जंतोः प्रकृतिः शुभा वा यदि वेतरा
तत्स्वभावप्रवृत्तस्य यदि शापस्त्वया मम ।। प्रदत्तः किं करोम्येतन्न कृत्यमपराध्यति ।ऽ
युक्तियुक्तं वचः श्रुत्वा दमनेन समी रितम्
वसंते सहकारोत्थमंजरीपिंजरे जने
तस्मिन्काले सुरेशानां शिरांस्याक्रम्य लीलया
ये त्वामारोपयिष्यंति दानमानपुरस्सराः 4.133.
सर्वदैव शिवस्येष्टा पुण्या पापभयापहा
एवमुक्त्वा ययौ ब्रह्मा दमनो मंदरे गिरौ
दिव्ये गिरौ गिरिसु तादयिताधिवासे रत्नांशुकच्छुरितकाञ्चनभूमिभागे
प्रवृत्तनरनारीकं पञ्चमोच्चारसुन्दरम्