गले वसनमादाय प्रणनाम स तापसम् 3.2.29.
देवदेवोऽथवा कोऽपि न जाने तव विक्रमम्
त्यज मौढ्यमति साधो प्रवादं मा वृथा कृथाः
इति विज्ञापितः साधुर्न बुबोध महाधनः
चंद्रचूडो यदानर्च सत्यनारायणं नृपः
प्रार्थितं न स्मृतं ह्येव इदानीं तप्यसे वृथा
तमनादृत्य दुर्बुद्धे कुतः सम्यग्भवेत्तव
सत्यनारायणं देवं तापसं तं ददर्श ह तुष्टाव तापसं तत्र साधुर्गद्गदया गिरा
यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम्
त्वन्मायामोहितात्मानो न पश्यंत्यात्मनः शुभम्
मूढोहं धनगर्वेण मदांधीकृतलोचनः 3.2.29.
क्षमस्व मम दौरात्म्यं तपो धाम्ने हरे नमः
इति स्तुत्वा लक्षमुद्राः स्थापिताः स्वपुरोधसि
तुष्टो नारायणः प्राह वांछा पूर्णा भवेत्तु ते अंते सांनिध्यमासाद्य मोदसे त्वं मया सह
इत्युक्त्वान्तर्दधे विष्णुः साधुश्च स्वाश्रमं ययौ
आगत्य नगराभ्याशे प्राहि णोद्द्रुतमाश्रमम्
जामात्रा सहितः साधुः कृतकृत्यः समागतः
पूजाभारं सुतायै सा दत्त्वा नौकांतिकं ययौ
कलावती त्ववज्ञाय प्रसादं सत्वरा ययौ
अवज्ञानात्प्रसादस्य नौकाशंखपतेरथ
मग्नं जामातरं पश्यन्विललाप स मूर्च्छितः 3.2.29.
ततः कलावती दृष्ट्वा पपात भुवि मूर्च्छिता
हा नाथ प्रिय धर्मज्ञ करुणाकरकौशल पत्युरर्द्धं गतं कस्मादर्द्धांगं जीवनं कथम्
सरोजनेत्रांबुकणान्विमुंचती मुक्तावलीभिस्तनकुड्मलांचिता
हा सत्यनारायण सत्यसिंधो मग्नं हि मामु द्धर तद्वियोगे
साधो कलावती क्षिप्रं मत्प्रसादं हि भोजयेत्
इत्याकाशे वचः श्रुत्वा विस्मिता तच्चकार सा
तत्रैव साधुः साह्लादो भक्त्या परमया युतः
तेन व्रतप्रभावेन पुत्रपौत्रसमन्वितः
इतिहासमिमं भक्त्या शृणुयाद्यो हि मानवः