यत्ते मनोभिलषितं तद्ददाम्यविचारितम्
न च वध्यां सुरादीनां मनुजानां च शंकर
शीतोष्णवर्षासमये दिवा रात्रौ बहिर्गृहे
शंकर उवाच उन्मत्तेभ्यः शिशुभ्यश्च भयं ते संभविष्यति
एवं दत्वा वरं तस्यै भगवान्भगनेत्रहा
एवं लब्धवरा सा तु राक्षसी कामरूपिणी 4.132.
अडाडयेति गृह्णाति सिद्धमंत्रं कुटुंबिनी
एतत्ते सर्वमाख्यातं ढौंढायाश्चरितं मया
अद्य पञ्चदशी शुक्ला फाल्गुनस्य नराधिप
अभयप्रदानं लोकानां दीयतां पुरुषोत्तम
दारुजानि च खंडानि गृहीत्वा समरोत्सुकाः
संचयं शुष्ककाष्ठानामुपलानां च कारयेत्
ततः किलकिलाशब्दैस्तालशब्दैर्मनोहरैः जल्पंतु स्वेच्छया लोका निःशंका यस्य यन्मतम्
तेन शब्देन सा पापा होमेन च निरा कृता
श्रीकृष्ण उवाच सर्वं चकार विधिवदुक्तं तेन च धीमता
गता सा राक्षसी नाशं तेन चोग्रेण कर्मणा 4.132.
सर्वदुष्टापहो होमः सर्वरोगोपशांतिदः
सर्वसारातिविश्वेयं पूर्वमासीद्युधिष्ठिर
अस्यां निशागमे पार्थ संरक्ष्याः शिशवो गृहे
आकारयेच्छिशुप्रायान्खड्गव्यग्र करान्नरान् रक्षंति तेषां दातव्यं गुडं पक्वान्नमेव च
एवं ढौंढितमात्रस्य स दोषः प्रशमं व्रजेत्
प्रवृत्ते माधवे मासि प्रतिपद्भास्करोदये
वंदयेद्धोलिकाभूतिं सर्वदुष्टोपशांतये
मंडिते चर्चिते चैव उपलिप्ते गृहाजिरे
तन्मध्ये स्थापयेत्पीठं शुक्लवस्त्रोत्तर च्छदम्
साक्षतं सहिरण्यं च सितचन्दनचर्चितम् 4.132.
आसने चोपविष्टस्य ब्रह्मघोषेण भारत
पद्मरागोत्तरपटा श्रेष्ठांशुकविभूषिता
चर्चापयित्वा श्रीखंडमायुरारोग्यवृद्धये
मनोभवस्य सा पूजा ऋषिभिः संप्रदर्शिता