एकवर्णं द्विवर्णं वा रोहितं श्वेतमेव वा
चतस्रो वत्सतर्यश्च ताभिः सार्ध मलंकृतम्
समितास्तेन सहिताः क्रीडध्वं हृष्टमानसाः 4.131.
अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना
विमुंचेद्वत्सकाभिश्च नीलाभिर्बलिनं वृषम्
इत्युक्ते गर्गमुनिना विधानं वृषमोक्षणे
ककुद्मिनं पतिं या धन्ये विमुञ्चन्ति गोवृषम्
वृषोत्सर्गे पुनात्येव दशातीतान्दशापरान्
वृषोत्सृष्टं पितॄणां तु तदक्षयमुदाहृतम्
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः
मधुकुल्याः पितुस्तस्य अक्षयास्ता भवंति वै
पितॄणां या भवेत्तृप्तिस्तां वृषस्त्वतिरिच्यते मधु वा नीलखंडं वा अक्षयं सर्वमेव तत्
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 4.131.
न करोति वृषोत्सर्गं सुतीर्थे वा जलाञ्जलिम्
यद्भूमिमालिखति शृङ्गखुरैः प्रहृष्टो यद्वा करोति प्रतिमल्लवृषान्निरीक्ष्य। खण्डं समस्तमपि तस्य विवाहकर्तुः संतोषमावहति शक्रसभागतस्य
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषोत्सर्गविधिवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः
फाल्गुनपूर्णिमाव्रतवर्णनम् उत्सवो जायते लोके ग्रामेग्रामे पुरे पुरे
किमर्थं शिशवस्तस्यां गेहेगेहेऽतिवादिनः
अडाडेति च का संज्ञा शीतोष्णेति किमुच्यते किमस्यां क्रियते कृष्ण एतद्विस्तरतो वद
श्रीकृष्ण उवाच आसीत्कृतयुगे पार्थ रघुर्नाम नराधिपः
स सर्वां पृथिवीं जित्वा वशीकृत्य नराधिपान्
न दुर्भिक्षं न च व्याधिर्नाकालमरणं तथा
तस्यैवं शासतो राज्यं क्षात्रधर्मरतस्य वै
अस्माकं हि गृहे काचिढ्ढौंढा नामेति राक्षसी
रक्षया कंडकेनापि भेषजैर्वा नराधिप
पौराणां वचनं श्रुत्वा रघुर्विस्मयमागतः 4.132.
कथमेषा नियंतव्या मया दुष्कृतकारिणी
रक्षणात्प्रोच्यते राजा पृथिवीपालनात्पतिः
वशिष्ठ उवाच ढौंढा नामेति विख्याता राक्षसी मालिनः सुता
तया चाराधितः शंभुरुग्रेण तपसा पुरा