कार्त्तिक्यां दीपकस्तत्र प्रदत्तस्तेन चैकदा
देवतायतनेऽवात्सं तत्राहमपि मूषिका
गृहीताथ मया वर्तिर्वृकदंशो ररास च 4.130.
वक्त्रप्रांतेन पश्यंत्या स दीपः प्रेरितो मया
मृताहं च पुनर्जाता वैदर्भे राजकन्यका
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनः
असंकल्पितमध्यस्य प्रेरणं यन्मया कृतम्
एतस्मात्कार णाद्दीपानहमेतानहर्निशम्
एवमुक्त्वा सपत्नीः सा दीपदानपरायणा
ततः कालेन महता सह राज्ञा महात्मना
तं लोकमासाद्य नृपेण सार्द्धं सा राजपत्नी कमलाभनेत्रा
दीपप्रदानमपि पुण्यतरं वदंति विप्राग्निगोसुरकुलैकगृहांगणेषु
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपदानविधिवर्णनं नाम त्रिंशदुत्तरशततमोऽध्यायः
वृषोत्सर्गविधिवर्णनम्
चैत्र्यामथ तृतीयायां वैशाख्यां द्वादशेऽह्नि वा
गोभिश्चतुर्भिः सहितं सृजेच्चैव विधिं शृणु
तत्तेहं च प्रवक्ष्यामि विधिं गर्गप्रचोदितम्
मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम्
तत्र विद्वाञ्जपित्वा तु स्थापयेद्रुद्रदेवताम्
अथैनं जुहुयात्षड्भिः पृथगाहुतिसंज्ञितैः
एकवर्णं द्विवर्णं वा रोहितं श्वेतमेव वा
चतस्रो वत्सतर्यश्च ताभिः सार्ध मलंकृतम्
समितास्तेन सहिताः क्रीडध्वं हृष्टमानसाः 4.131.
अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना
विमुंचेद्वत्सकाभिश्च नीलाभिर्बलिनं वृषम्
इत्युक्ते गर्गमुनिना विधानं वृषमोक्षणे
ककुद्मिनं पतिं या धन्ये विमुञ्चन्ति गोवृषम्
वृषोत्सर्गे पुनात्येव दशातीतान्दशापरान्
वृषोत्सृष्टं पितॄणां तु तदक्षयमुदाहृतम्
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः