एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
आसीच्चित्ररथोनाम विदर्भेषु महीपतिः 4.130.
एकैव कन्या तस्यासील्ललिता नाम नामतः
तां ददौ काशिराजाय चार्वंगीं चारुधर्मणे
तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत्
विष्णोरायतने सा तु सहस्रं परिदीपकान्
तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्त्तिकम्
तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा
चतुष्पथेषु रथ्यासु देवतायतनेषु च
पुलिनेषु नदीनां च कूपमूलेषु पांडव
ललिते वद भद्रं ते ललितं वचनं तथा
भवत्याः सुमहान्यत्नो दीपप्रज्वालने यथा 4.130.
मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम् ललितोवाच नाहं मत्सरिणी भद्रा न च रागादिदूषिता
एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः
मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम्
उमादेवीति मद्रेषु देविका सा सरिद्वरा श्रुता किं भवतीभिः सा देविका पापनाशिनी
तस्यां स्नात्वा सकृन्नद्यां गाणपत्यमवाप्नुयात् हरिणा नृसिंहवपुषा यत्र स्नानं कृतं पुरा
सौवीरराजस्य पुरा मैत्रेयोभूत्पुरोहितः
अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः
कार्त्तिक्यां दीपकस्तत्र प्रदत्तस्तेन चैकदा
देवतायतनेऽवात्सं तत्राहमपि मूषिका
गृहीताथ मया वर्तिर्वृकदंशो ररास च 4.130.
वक्त्रप्रांतेन पश्यंत्या स दीपः प्रेरितो मया
मृताहं च पुनर्जाता वैदर्भे राजकन्यका
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनः
असंकल्पितमध्यस्य प्रेरणं यन्मया कृतम्
एतस्मात्कार णाद्दीपानहमेतानहर्निशम्
एवमुक्त्वा सपत्नीः सा दीपदानपरायणा
ततः कालेन महता सह राज्ञा महात्मना