अग्ने कामाय जेगिरे अग्निप्रियेषु धामसु
एवमेतेन विधिना यः प्रयच्छति दीपकम्
यांति ते ब्रह्मसदनं विमानेनार्कवर्चसा 4.130.
सदीपे तु यथा देशे चक्षूंषि बलवन्ति हि
यथैवोर्ध्वं गतिर्नित्यं राजन्दीपशिखासु वै
घृतेन दीपो दातव्यो राजंस्तैलेन वा पुनः
दीपस्तैलेन कर्तव्यो न तु कर्म विजानता
यः कुर्यात्कर्मणा तेन स्यादसौ पुष्पितेक्षणः
पद्मसूत्रोद्भवां वर्तिं गंधतैलेन दीपिताम्
प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम्
एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
आसीच्चित्ररथोनाम विदर्भेषु महीपतिः 4.130.
एकैव कन्या तस्यासील्ललिता नाम नामतः
तां ददौ काशिराजाय चार्वंगीं चारुधर्मणे
तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत्
विष्णोरायतने सा तु सहस्रं परिदीपकान्
तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्त्तिकम्
तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा
चतुष्पथेषु रथ्यासु देवतायतनेषु च
पुलिनेषु नदीनां च कूपमूलेषु पांडव
ललिते वद भद्रं ते ललितं वचनं तथा
भवत्याः सुमहान्यत्नो दीपप्रज्वालने यथा 4.130.
मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम् ललितोवाच नाहं मत्सरिणी भद्रा न च रागादिदूषिता
एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः
मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम्
उमादेवीति मद्रेषु देविका सा सरिद्वरा श्रुता किं भवतीभिः सा देविका पापनाशिनी
तस्यां स्नात्वा सकृन्नद्यां गाणपत्यमवाप्नुयात् हरिणा नृसिंहवपुषा यत्र स्नानं कृतं पुरा
सौवीरराजस्य पुरा मैत्रेयोभूत्पुरोहितः
अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः