दद्याच्च यः परमभक्तियुतः सुराणां घण्टावितानवरचामरमातपत्रम्
अभ्यर्चयेत्प्रतिवचः कुसुमैर्विचित्रैर्देवाधिदेवपरिसंस्तुतपादपद्मान्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवपूजाविधिवर्णनं नामैकोनत्रिंशदुत्तरशतत मोऽध्यायः
दीपदानविधिवर्णनम् दानेन केन वा लोके प्रोज्ज्वल्त्वं प्रजायते
अतितेजो महद्दीप्तं दीप्तांशुकिरणोज्ज्वलम्
आगतः स च मे पत्न्या जाम्बवत्या प्रपूजितः
प्रष्टश्च प्रश्रमेवैतं स चावोचद्यथातथम्
यदायदा नृपश्रेष्ठ पुण्यकालः प्रपद्यते
उत्तरे त्वयने प्राप्ते दक्षिणे विषुवे तथा
सप्तम्यामथ वाष्टम्यां स्नात्वा व्रतपरो नरः घृतकुंभेन दीपेन प्रज्वलंतं प्रदीपकम्
किमेतत्कौतुकं मेऽस्ति संशयं छेत्तुमर्हसि
स स्वर्गं गन्तुकामोऽभूच्छरीरेण नरोत्तम
त्रिशंकुः सर्वमाचख्यौ विश्वामित्राय धीमते 4.130.
न ता हविः प्रत्यगृह्णंस्ततः क्रुद्धः कुशात्मजः
शृंगाटका न्नालिकेरान्पचनानानजौडकान्
उष्ट्रान्मनुजदेवांश्च क्रोधान्मुनिरवासृजत्
ततः शक्रः समागम्य विश्वामित्रं प्रसाद्य वै
मर्त्य लोके च ते सर्वे देवा देवकुलेष्वथ
ब्रह्मा विष्णुस्तथा रुद्रो ये चान्ये देवतागणाः
प्रतिमासु स्थिताः शश्वद्भोगान्भुञ्जति शाश्वतान्
सूर्याय रक्तवस्त्रेण पूर्णवर्तिं घृतैर्युताम्
तद्वि ष्णोः परमं पदं सदा पश्यंति सूरयः
पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने 4.130.
वर्ति लाक्षारक्तेन दुर्गायै पूर्णवर्ति प्रबोधयेत्
नागेभ्यः कृष्णवस्त्रेण ग्रहेभ्य इषिका युधाम्
विशेषं शृणु सूर्याय पूर्णवर्तिर्निगद्यते
पद्मवर्तिर्विरिंचाय गौर्य्यै सौभाग्यवर्तिका
नेत्रपट्टेन मधुना घृतेन मधुकुंडके
मंत्रेणानेन राजेन्द्र तन्निशामय वैदिकम्
अग्रे त्वां काम्यया गिरा तुभ्यं ता गिरसस्तु विश्वाः