ताम्रपात्र्यां सबीजानि सरलान्यधिवासयेत्
इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्गुरुः
ग्रहयज्ञविधानेन शांतिकर्म समारभेत् 4.128.
चतुरोऽष्टौ यथाशक्त्या वासोभिरभिपूजयेत्
मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः
होमादौ जातकर्मादि गोदानं यावदेव तु
जातकं नामकरणमन्नप्राशनमेव च
जातरूपक्षुरेणात्र चूडाकार्या यथाक्रमम्
यजमानस्ततः स्नातः शुक्लांबरधरः शुचिः
ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः
एतैर्द्विजैर्विधिवरप्रहुतो हुताशः पश्यत्यसावहिमदीधितिरंबरस्थः
इत्येवमुक्त्वा तं वृक्षं लालयित्वा पुनःपुनः
अङ्गादङ्गात्संभवसि हृदयादभिजायसे 4.128.
ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः
दीनानाथजनानां च भोजनं चानिवारितम्
ज्ञातिबन्धुजनैः सार्द्धं स्वयं भुञ्जीत कामतः
य एवं कुरुते पार्थ वृक्षाणां महदुत्सवम्
पुत्रैर्विना शुभगतिर्न भवेन्नराणां दुष्पुत्रकैरिति तथोभयलोकनाशः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृक्षोद्यापनविधिवर्णनं नामाष्टाविंशत्युत्तरशततमोऽ ध्यायः
देवपूजाविधिवर्णनम् तेषां मृतेऽथ परमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम्
यः कारयेद्द्वारसिताभ्रगौरमुत्तुंगसौधधवलायतनं सुराणाम्
ये कारयंति सुरसद्मसु देवतानामर्चाः सुवर्णरजतायसशैलताम्राः
ये मेरुमौलिसुरसंघकृताभिषेकाः पञ्चामृतैः सुरवरानभिषेचयंति
ये शैलराजमलयोद्भवचंदनेन सत्कुंकुमेन च सुराननुलेपयंति
गंधाढ्यजातिकमलोत्पलदिव्यपुष्पैर्देवान्नवैरनुदिनं ननु येऽर्चयंति
आमोदिभिर्हिमतुरुष्कसुगन्धधूपैर्ये मानवाः सुरवरानपि धूपयंति
दोधूयते कनकदंडविराजितैश्च सच्चामरैर्धवलकुण्डलसुन्दरीभिः
देदीप्यते दिनकरोज्ज्वलपद्मरागरत्नप्रभाच्छुरितहेममये विमाने
यो जागरं सुरवराभिमतो ददाति चैत्रोत्सवादिदिवसेष्वपि तूर्यनादैः 4.129.
कुर्वति ये सदुपलेनधातुरागसंमार्जनं सुरवरायतनेऽनुरक्ताः