सच्छाया च सपुष्पा च सफला वृक्षवाटिका
अशोकफलावकरा तिलकालंकृतानना
सदा स तीर्थी भवति सदा दानं प्रयच्छति ।। 4.128.
अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिञ्चिणीकान्
पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयते द्विजाय
प्रतिश्रयाश्रान्त समाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः
न खानिताः पुष्करिण्यो रोपिता न महीरुहाः
छायामन्यस्य कुर्वंति तिष्ठंति स्वयमातपे
अतः परं प्रवक्ष्यामि वृक्षस्योद्यापने विधिम्
अपुत्रया पुरा पार्थ पार्वत्या मन्दराचले
जातकर्मादिकास्तस्य याः क्रियाः किल बुद्धिमन्
ततो मूले घनदलो वल्गुच्छायांगपल्लवः
स्त्रीनामकंटकीकुब्जकीटवृश्चिककोटरः 4.128.
आलवाले सुविहिते शुभे बद्धचतुष्किके
सदैवोद्यापनं पार्थ पादपानां प्रशस्यते
पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत्
पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम्
पल्लवालंकृतमुखान्सितचन्दनचर्चितान्
पताकालंकृताः सर्वे कार्यास्तत्सन्निधौ द्रुमाः
रक्तपीतसिताच्छादैश्चर्चिताः सुमनोहरैः
ताम्रपात्र्यां सबीजानि सरलान्यधिवासयेत्
इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्गुरुः
ग्रहयज्ञविधानेन शांतिकर्म समारभेत् 4.128.
चतुरोऽष्टौ यथाशक्त्या वासोभिरभिपूजयेत्
मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः
होमादौ जातकर्मादि गोदानं यावदेव तु
जातकं नामकरणमन्नप्राशनमेव च
जातरूपक्षुरेणात्र चूडाकार्या यथाक्रमम्
यजमानस्ततः स्नातः शुक्लांबरधरः शुचिः
ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः