यस्य स्वादुजलं कूपे पिबंति सततं जनाः
यः प्रासादान्रचयति शुभान्देवतानां तडागे कीर्तिस्तस्य भ्रमति विपुला वंशमार्गानुयाता 4.127.
तेषां तडागानि बहूदकानि कूपाश्च यूपाश्च प्रतिश्रयाश्च
वृक्षोद्यापनविधिवर्णनम् उद्यापनविधिं चैव सरहस्यं समासतः
पत्रैः पुष्पैः फलैर्मूलैः कुर्वंति पितृतर्पणम्
बहुभिर्मृतकिञ्जातैः पुत्रैर्धर्मार्थवर्जितैः
प्राणिनः प्रीणयंति स्म च्छायावल्कलपल्लवैः
पुष्पपत्रफलच्छायामूलवल्कलदारुभिः
पुत्राः संवत्सरस्यांते श्राद्धं कुर्वंति वा न वा
न तत्करोत्यग्निहोत्रं सुखं यद्योषितः सुतः
सच्छाया च सपुष्पा च सफला वृक्षवाटिका
अशोकफलावकरा तिलकालंकृतानना
सदा स तीर्थी भवति सदा दानं प्रयच्छति ।। 4.128.
अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिञ्चिणीकान्
पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयते द्विजाय
प्रतिश्रयाश्रान्त समाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः
न खानिताः पुष्करिण्यो रोपिता न महीरुहाः
छायामन्यस्य कुर्वंति तिष्ठंति स्वयमातपे
अतः परं प्रवक्ष्यामि वृक्षस्योद्यापने विधिम्
अपुत्रया पुरा पार्थ पार्वत्या मन्दराचले
जातकर्मादिकास्तस्य याः क्रियाः किल बुद्धिमन्
ततो मूले घनदलो वल्गुच्छायांगपल्लवः
स्त्रीनामकंटकीकुब्जकीटवृश्चिककोटरः 4.128.
आलवाले सुविहिते शुभे बद्धचतुष्किके
सदैवोद्यापनं पार्थ पादपानां प्रशस्यते
पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत्
पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम्
पल्लवालंकृतमुखान्सितचन्दनचर्चितान्
पताकालंकृताः सर्वे कार्यास्तत्सन्निधौ द्रुमाः
रक्तपीतसिताच्छादैश्चर्चिताः सुमनोहरैः