इत्येवं भूपतिश्चैव विप्ररूपेण बोधितः 3.2.29.
विस्मितः सहसोत्थाय दध्यौ ब्रह्म सनातनम्
महामन्त्री च भूपालं प्राह सत्येन भो द्विज अतस्तौ हि समानीय संपृच्छ विधिवन्नृप
आनीय साधुं पप्रच्छ सत्यमालंब्य भूपतिः
वाणिज्यार्थं महाराज वाणिज्यं जीविकावयोः
मणिमुक्तादि विक्रेतुं क्रेतुं वा तव पत्तने
प्रतिकूले विधौ को वा दशां नाप्नोति वै पुमान्
आवां न चौरो राजेंद्र तत्त्वतस्त्वं विचारय
छेदयित्वा दृढं पाशं लोमशातिमकारयत्
नगरे पूजयामास वस्त्राभूषणवाहनैः
कारागारे बहुविधं प्राप्तं दुःखमतः परम् 3.2.29.
श्रुत्वा साधुवचो राजा प्राह कोशाधिकारिणम्
जामात्रा सहितः साधुर्गीतवादित्रमंगलैः
सत्यनारायणो देवः प्रत्यक्षफलदः कलौ
प्रत्युत्तरमदात्साधुः क्षिप नौकाश्च सत्वरम्
भोः स्वामिन्मे धनं नास्ति लतापत्रादिपूरितम्
इत्युक्तस्तापसः प्राह तथास्त्विति वचः क्षणात्
धनं नौकासु नास्तीति साधुश्चिंतातुरोऽभवत्
वज्रपाताहत इव भृशं दुःखितमानसः
इति मूर्छागतः साधुर्विललाप पुनःपुनः
गले वसनमादाय प्रणनाम स तापसम् 3.2.29.
देवदेवोऽथवा कोऽपि न जाने तव विक्रमम्
त्यज मौढ्यमति साधो प्रवादं मा वृथा कृथाः
इति विज्ञापितः साधुर्न बुबोध महाधनः
चंद्रचूडो यदानर्च सत्यनारायणं नृपः
प्रार्थितं न स्मृतं ह्येव इदानीं तप्यसे वृथा
तमनादृत्य दुर्बुद्धे कुतः सम्यग्भवेत्तव
सत्यनारायणं देवं तापसं तं ददर्श ह तुष्टाव तापसं तत्र साधुर्गद्गदया गिरा
यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम्
त्वन्मायामोहितात्मानो न पश्यंत्यात्मनः शुभम्