विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः
तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ।। 4.127.
सर्वरत्नमयं दिव्यं चन्द्रार्कसदृशप्रभम्
कश्चित्पिबति तत्तोयं निपानस्थं ततोऽञ्जलिम्
महाभोज्यं महोत्सर्गं यजमानो दिनाष्टकम्
कारकाः कर्मणो वापि सूत्रधारादयो नराः
खन्यमाने महीभागे प्राणिनो ये क्षयं गताः
धेनोस्तु रोमकूपाणि यावन्तीह नरोत्तम
कोटिर्युगसहस्राणां स्वर्गे तिष्ठेत्तडागकृत्
तांस्तु तारयते सर्वानात्मानं च महीपते
अपि नः स कुले जातो यस्तडागं करिष्यति
कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् 4.127.
मासं चेतागृहे कोटिक्षणध्वंसिधनस्य हि
चतुर्थकं फलं प्राप्तं कारितेऽस्मिंश्चतुष्टये
तथा स्वादेन च जलं कर्तुः सर्वं शुभाशुभम्
धन्यस्य पांथाः संप्राप्य तडागं वृक्षमंडितम्
मारुतोद्भूतवीच्यग्रैः करैः कमलमंडितम्
सामान्यं सर्वभूतेभ्यो येन भूमिगतं जलम्
मूर्तं स्वभावतः सिद्धमिष्टं मन्त्रप्रदर्शितम्
उन्नता वाथ निम्ना वा कीर्तिर्येन प्रकाशिता
त्रितयं निघ्नतां नेयं त्रितयं चोन्नतिं पराम्
यः कारयति लोकेऽस्मिन्कीर्तिस्तस्यामला भवेत् 4.127.
उपेतानामपि दिवं स निबन्धविधायिनाम्
तावत्स्वर्गे स रमते यावत्कीर्तिरनश्वरा
हंसास्यक्षिप्तनील्यग्रं पद्मिनीखण्डमण्डितम्
घटैरञ्जलिभिर्वक्त्रैर्यस्य वाटीपुटैर्जलम्
तडागं नगरोपांते धन्यस्य किल जायते
येषां देवकुलं तत्तु निष्पद्येत सरस्तटे
न भवंतीष्टिका यावद्द्रोणी वा भूमिसन्निभा
भोग्यस्थाने कृतः कूपः सुस्वादुसलिलस्तथा