एष राजंस्तडागस्य विधिस्ते परिकीर्तितः
कुण्डमण्डपसंभारभूषणाच्छादनादिकम् 4.127.
अकालमूलान्कलशान्वापीकोणेषु दापयेत्
सितवासोयुगच्छन्नान्समाल्यान्रत्नगर्भिणः
चतस्र आहुतीर्दद्याद्भूर्भुवः स्वरिति क्रमात्
वरुणाय बलिं दद्याल्लोकपालेभ्य एव च
वेदीमध्ये मंडलं च पद्ममत्र प्रशस्यते
मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत्
वैद्यो रोगाभिभूतानां शरण्यः शरणार्थिनाम्
आदौ चावाहयेद्देवमनेनैव विशेषतः
सान्निध्यं कुरु देवेश समुद्रे यद्वदत्र वै
गौः स्थापकाय दातव्या भोजनं चानिवारितम् 4.127.
शराया आगतं तोयं सामुद्रं प्रथमं स्मृतम्
वापीकूपतडागे वा स्थितं तु प्रथमं जलम्
समुद्रोऽपि हि कौंतेय देवयोनिरपांपतिः
अग्निश्च तेजो मृडयाथ देहे रेतोधा विष्णुरमृतस्य नाभिः
वैष्णवे मासि संप्राप्ते नक्षत्रे वारुणे तथा
स्नात्वा तु विधिवन्मंत्रैः सागरे तु समाहितः
अपि जन्मसहस्रं तु यत्पापं कुरुते नरः
विधिज्ञेन तु कर्तव्यं ब्राह्मणेन यथाविधि
विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः
तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ।। 4.127.
सर्वरत्नमयं दिव्यं चन्द्रार्कसदृशप्रभम्
कश्चित्पिबति तत्तोयं निपानस्थं ततोऽञ्जलिम्
महाभोज्यं महोत्सर्गं यजमानो दिनाष्टकम्
कारकाः कर्मणो वापि सूत्रधारादयो नराः
खन्यमाने महीभागे प्राणिनो ये क्षयं गताः
धेनोस्तु रोमकूपाणि यावन्तीह नरोत्तम
कोटिर्युगसहस्राणां स्वर्गे तिष्ठेत्तडागकृत्
तांस्तु तारयते सर्वानात्मानं च महीपते