इतिहासपुराणज्ञाः प्रियवाचोऽनसूयकाः
व्यंजनानि च कार्याणि होमार्थं समिधस्तिलाः 4.127.
वेद्याधिवासितानां च सुराणां होम इष्यते
इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः
द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान्
सौवर्णं कारयेत्कूर्मं ताम्रेण मकरं तथा
शिशुमारजलौकाञ्च रजतेनैव कारयेत्
एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान्
कुंकुमेन समालभ्य पुष्पैर्धूपैः समर्चयेत्
ततो द्विजातिप्रवरः श्रपयित्वा चरुं नवम्
ततश्चावाहयेद्देवं वरुणं सरितां पतिम्
श्वेतेनैव तु वस्त्रेण शिरोवेष्टं तु कारयेत् 4.127.
अप्रमाणं जलं गत्वा वरुणाय निवेदयेत्
यच्चान्यद्वस्त्रबीजानि तत्सर्वं मज्जयेज्जले
गोशिरोवेष्टनं कुर्यात्सति वस्त्रे तु बुद्धिमान्
ज्ञातिभिः सहितः कर्ता सभार्यश्चावगाहयेत् शक्त्या च दक्षिणां दद्यादेवं विप्रान्विसर्जयेत्
सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम्
तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत्
एकाहं च यथाशक्त्या वित्तशाठ्यं न कारयेत्
शतमर्धशतं वापि पञ्चविंशतिमेव च
एष राजंस्तडागस्य विधिस्ते परिकीर्तितः
कुण्डमण्डपसंभारभूषणाच्छादनादिकम् 4.127.
अकालमूलान्कलशान्वापीकोणेषु दापयेत्
सितवासोयुगच्छन्नान्समाल्यान्रत्नगर्भिणः
चतस्र आहुतीर्दद्याद्भूर्भुवः स्वरिति क्रमात्
वरुणाय बलिं दद्याल्लोकपालेभ्य एव च
वेदीमध्ये मंडलं च पद्ममत्र प्रशस्यते
मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत्
वैद्यो रोगाभिभूतानां शरण्यः शरणार्थिनाम्
आदौ चावाहयेद्देवमनेनैव विशेषतः